SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / श्रीपोतनेशोपरि दैवयोगा-तद्वचो मे व्यभिचारि किश्चित् / आकर्ण्य तत्कर्णसुदुःश्रव मे-ऽमात्येन वैमत्यविसंस्थुलेन // 40 // आक्षिप्य नैमित्तिकमात्मनैव, क्रोधान्धतामाश्रयता न्यगादि / त्वन्मूर्ध्नि किं वा पतिता तदानी-माख्याहि मे पृच्छत एव तावत् // 41 // तत्तर्हि किं विजानासि ? त्वमिति शेषः / इतीत्थं मया पृष्टे, तेन नैमित्तिकेन उक्तम् / सदुक्तिमेवाह-भूमिपाल ! आकर्णय श्रृणु, इतः अस्मात् घस्रात् दिनात् 'घस्रो दिनाहनी' इत्यमरः / सप्तमके सप्तमे घस्र मध्याह्नकाले दैवयोगाव अकस्मात् श्रीपोतनेशस्य उपरि अशनिः वज्रम्, द्राक् शीघ्रमेव, पतिता पतिष्यति / ननु तवैतद्वचनं मिथ्येति चेत्तत्राहएतदुक्तं मे मम वचः किंचित् कथमपि, व्यभिचारि मिथ्या, न, भविष्यतीति शेषः / तत् नैमित्तिकोक्तम्, कर्णयोः सुदुःश्रवम् अतिकटु, आकर्ण्य, मे मम, अमात्येन सचिवेन, वैमत्यैनाप्रीत्या विसंस्थुलेन जडेन, क्रोधान्धताम् क्रोधेन विबेकशून्यताम् , आश्रयता अधिगच्छता, आत्मना स्वयमेव नैमित्तिकम आक्षिप्य भर्त्सथित्वा, न्यगादि ऊचे, किमित्याह-तदानीं अशनिपातसमये, त्वन्मूर्ध्नि त्वन्मस्तके, वा च किं पतिता पतिष्यति ? इति, मे मम पृच्छतः एव, न तु कालविलम्बः क्षम्य इति भावः / तावदिति वाक्यालङ्कारे, आख्याहि ब्रूहि / यः परस्य जानाति स स्वस्य त्ववश्यं .जानीयादिति भावः // 39 // 40 // 41 // તો તમે શું જાણો છે એમ મેં પૂછ્યું ત્યારે તેણે જે કીધું, તે હે રાજ સાંભળે. આ દિનથી સાતમે મધ્યાહ્નકાલે શ્રીપતિનેશ ઉપર દેવગે શીધ્રતા (ગ)થી વજ પડશે. આ મારું વચન કંઈ પણ ખોટું નથી. કાનને સાંભળતા અત્યંત કષ્ટ થાય એવા તે વચન સાંભળી વિરોધથી વ્યાકુળ એવા મારા અમાત્યે પોતે જ ક્રોધથી નૈમિત્તિકને તિરસ્કાર પૂર્વક કહ્યું કે તે વખતે તારા મસ્તક ઉપર શુ ૫ડશે ? તે 57i साथे / भने 4. 136-40-41 // अथ तदुत्तरमाहतद्वाचमन्तर्विनिवेश्य तेन, प्रोचे मयि स्वर्णमणिव्रजानाम् / वृष्टिः पतिष्यत्युदयं दिशन्ती, भानोरिव ध्वान्तभरं हरन्ती // 42 // तस्यामात्यस्य वाचम् , अन्तर्विनिवेश्य मनसि कृत्वा, तेन नैमित्तिकेन प्रोचे उक्तम् , तदुक्तिमेवाहमयि ममोपरि भानोः सूर्यस्येव, ध्वान्तस्य तमसः, लक्षणया दैन्यस्य भरमतिशयं हरन्ती उदयमभ्युन्नतिं दिशन्ती प्रकटयन्ती, स्वर्णानां मणीनां च व्रजानां राशीनां वृष्टिः पतिष्यति // 42 // તેનાં વચનને મનમાં ધારીને તે નિમિતિકે કીધું કે મારી ઉપર સૂર્યની જેમ અંધકાર સમૂહને નાશ કરતી ને મારી આબાદીને બતાવતી સુવર્ણ અને મણિ સમૂહની વૃષ્ટિ પડશે. જરા धैर्य समालम्ब्य मया ततोऽपि, स्वं धीसखं प्रत्युदितं यदस्मै / * न क्रुध्यतेऽमात्य विशिष्टशास्त्र-दृष्टार्थसार्थप्रतिपादकाय // 43 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy