________________ श्रीशान्तिनाथमहाकाव्ये अमरदत्तवचो विनिशम्य सो-ऽभ्यधित मित्रमुदागमितक्षणः / पुनरपीदमथायमवोचत, ह्रियमपास्य नृपस्य तनूभवः // 89 // अमरदत्तवचः विनिशम्य, आगमितक्षणः यत्यायितकियत्मणः प्रतीक्षितकियत्क्षगः, स मित्र मुत् पुनरपि अभ्यधित पुरान्तरमीयते इत्यवोचत / अथानन्तरम् , अयं नृपस्य तनूभवः पुत्रोऽमरदत्तः ह्रियं लज्जामपास्य दूरीकृत्वा, कामातुराणां न भयं न लज्जेति भावः / इदं अवोचत प्रत्युत्तरितवान् / / 8 / / અમરદત્તની વાત સાંભળી કેટલાક ક્ષણ પ્રતીક્ષા કરી મિત્રમંદ ચાલો એમ બે, ત્યારે ફરીથી તે રાજપુત્ર શરમ છોડી બોલ્યા. ૫૮લા ___ अहमिमामपहातुमनीश्वरः, सुचरितामिव पूर्वभवप्रियाम् / यदि बलादपि मां नयसे सखे / , न तदसून्मम तर्हि किमन्तिताम् ? // 9 // अथामरदत्तोत्तरवाक्यमेवाह-अहममरदत्तः, सुचरितां सुशीला पूर्वभवप्रियाम् पूर्वजन्मभार्यामिव, इमां दर्शनपथगताम् , इयं मम पूर्वजन्मभार्यातुल्या कथमन्यथा मम मनोऽस्यामनुरक्तमिति भावः / अत एव, अपहातुं त्यक्तुम् अनीश्वरोऽसमर्थः / सखे ! यदि मां बलात् बलपूर्वकम् , तदनिच्छतस्तद्विधापनं बलप्रयोग एवेति भावः / नयसे पुरान्तरमितः प्रापयसे, तत् तदा ममासून प्राणान् , अन्तिताम् अन्तः चरमावस्था अस्त्येषामित्यन्तिनस्तेषां भावस्तत्ता ताम अन्तमित्यर्थः। तर्हि किं न, नयसे इत्यनुषज्यते / इतो गमनापेक्षया वरं मम प्राणत्यागः, यदीतो मा बलामयसे, तर्हि अहं प्राणान् त्यक्ष्यामि, एनां विना ममावस्थानासम्भवादिति भावः // 10 // હે મિત્ર ! ઉત્તમ ચરિત્રવાળા પૂર્વભવની પ્રિયા જેવી આ મૂર્તિને છોડવાને હું સમર્થ નથી. જે બળપૂર્વક લઈ જશે તો મારા પ્રાણોને નહિં લઈ જઈ શકે. તો આના સમીપપ કેમ ( છેડા छ.) utu इति स तद्वचनाच्छु तिसङ्गताद् , न्यधित मक्षु सुहद परिदेवनम् / तमनु रोदिति स स्म नृपाङ्गजो, ध्वनिमयं भुवनं समभूत्तदा // 11 // ___ स सुहत् मित्रमुत्, श्रुतिसङ्गतात्कर्णप्राप्तात्, इति पूर्वोक्तात्, तस्य अमरदत्तस्य वचनात् हेतोः, तद्वचनं श्रुत्वा मम मित्रमवशो जात इति दुःखादित्यर्थः / मक्षु द्रुतम्, “द्रामाक्षु सपदि द्रुतमि" त्यमरः / परिदेवनम् विलापम् "विलापः परिदेवनमि" त्यमरः / व्यधिताकार्षीत् / तं मित्रमुदमनुपश्चात्, स नृपाङ्गजोऽमरदत्तः, रोदिति स्म / मित्रं विलपन्तं दृष्टा सोऽप्यधैर्याद्विललापेत्यर्थः / तदोभयोविलापकाले भवनं देवायतनं भुवनमिति पाठेत्वस्य जगदित्यर्थः / 'भुवनं जगती जगत्' इतिहैमः / ध्वनिमयम् उभयो रोदनध्वनिपूर्ण समभूत् // 11 // આમ તેને વચન સાંભળી તે મિત્ર તરતજ વિલાપ કરવા લાગે ને તેની પાછળ તે રાજપુત્ર પણ રડવા માંડ્યો. તે વખતે આખો સંસાર અવાજથી ભરી ગયે. 9 गुणवदिभ्यमणिमणिसारकः, सकरुणः स च तत्र समागतः / स्म परिपृच्छति शोकनिबन्धनं, तमथ सागरिराह यथातथम् // 12 //