________________ -बा. विषयदर्शनसूरीश्वररचितवृत्तिसहित अष्टमः सर्गः [ 215 વિધાતાએ તે રાજપુત્રને બનાવતી વખતે તેનું હદય કઠણ બનાવ્યું નહિં, નહિતર કામદેવ તેના પુષ્પના બાણોથી પણ કેમ અત્યંત પીડા આપી શકતે. 8 પા मनसिजेन युवा स पराहतः, किमपि नैव विवेद विचेतनः / अपरथा कथमेष दृशत्त्रियां, रतिलयं विदधीत विधीरतः 1 // 86 // मनसिजेन-कामेन ! 'शम्बरारिमनसिजः' कुसुमेषुरनन्यज' इत्यमरः, पराहतः सन्तप्तः, पीडित इत्यर्थः / स युवा, विचेतनः चेतनाचेतनविवेकशून्योऽभूदित्यथः, अत एव किमपि न विवेद विचारितवान् / यो हि विवेकशून्यः स कथं विचारयेदिति भावः। ननु कथमेतज्ज्ञायते इति चेत्तत्राहअपरथा अन्यथा, तस्य सचेतनत्वे इत्यर्थः / एष युवा अमरदत्तः विधीरतः धैर्यवैधुर्यात् भावप्रधानोनिर्देशः / दृषदा प्रस्तरेण निर्मिता स्त्री पुत्तलिका तस्याम् , रतिलयम् रत्यात्मकमनोभावम् कथं विदधीत कुर्यात् / यो हि सचेतनः स नाचेतने रतिमिच्छतीत्ययं विचेतन इति / / 86 // કામદેવથી આઘાત પમાડાથે છત ને હોંશ ગુમાવી બેઠેલા તે યુવાન રાજપુત્ર કંઈ સમજ ન હતો અન્યથા વિધિની પ્રેરણાથી તે શી રીતે પત્થરની અને વિષે, અનુરાગવાળો થાત. 8 सुरवधूऋषिशापपराहतो-पलमयत्वमशिश्रियदेषिका / न दृषदीदृशरूपविवर्तना, प्रवचन सम्भवतीति विचिन्तयन् // 8 // अमिदघे सुहृदा सकुमारका, प्रबलमित्र ! पुरान्तरमीयते / स निजगाद सखे ! क्षणमास्यता, किमपि यावदिदं वपुरीक्ष्यते // 88 // युग्मम् / एषिका पुरो दृश्यमाना पुत्तलिका सुरवधूः कापि देवी, ननु सुरवधूः कथं प्रस्तरमयी स्यादिति वेत्तत्राह-ऋषिशापेन पराहता उपलमयत्वम् अशिश्रियत् , आश्रितवती, ऋषिशापेन पाषाणमयी जातेत्यर्थः / ननु कुत एतत्तव कल्पनेति चेत्तत्र हेतुमाह-दृषदि प्रस्तरे, ईदृशस्य लोकमनोहरस्वरूपस्यसौन्दर्यस्य कृतेर्वा विवर्तना घटना क्वचन कुत्रापि न सम्भवति इतीत्थं विचिन्तयन् सकुमारकः अमरदत्तः सुहृदा मित्रेण मित्रमुदा अभिदधे सम्बोधितः, किमित्याह-प्रबलमित्र ! मित्रवर / पुरान्तरम् पुरस्यान्तः ईयते गम्यते भोजनादिसम्पादनायेति शेषः। स अमरदत्तः निजगाद, उत्तरितवान्, उत्तरमेवाह-सखे ! मित्र ! क्षणम् , किञ्चित्कालमास्यताम् , अत्रैव स्थीयताम् ननु, अत्र किं काय सवेत्याशयाहू, यावद् यदवधि इदमद्भुतदर्शनीयम् वपुः स्वरूपम् ईक्ष्यते / एतदीक्षणं विहाय नान्यत्र गन्तुमीहे इत्यर्थः / / 8788 // * તે આ ઈદેવની સ્ત્રી અષિના શાપથી પત્થર થઈ ગઈ છે. પત્થરનું આવું 25 નિર્માણ કયાંય પણ હોઈ શકે નહિ એમ વિચારતો હતો ત્યારે તેણે મિત્રે કીધું કે મિત્ર ! પાછા વળ નગરીની અંદર જઈએ, ત્યારે તે બોલ્યા કે હે મિત્ર ! ક્ષણ વાર અહિં રહિએ એટલામાં આ શરીર કાંઈક જોઈ बने. 100-LAL