________________ 214 ] भीचान्तिनाथमहाकाव्ये વિમલને શીતળ વાવમાં સ્નાન કરવાથી પવિત્ર શરીરવાળા તે બન્ને વિવિધ ચિત્રોથી તપ્ત નેત્રવાળા છતાં તે દેવમન્દિરમાં ગયા. I૮રા उपलक्लप्तमनोहरपुत्रिका, नृपसुतः समवैक्षत तत्र च / नयनयुग्मममन्यत सोऽर्थवत्, किममृतं प्रियलाभमृतेऽपरम् 1 // 3 // तत्र देवालये स नृपसुतः अमरदत्तः उपलेन प्रस्तरेण क्लृप्तां निर्मिताम् मनोहरा पुत्रिका पुत्तलिका समवेक्षत, नयनयुग्मम् अर्थवत्सफलम् अमन्यत च / एतेन पुत्तलिकायाः लोकविलक्षणरचनाचातुर्य सूचितम् / पुत्तलिकादर्शनेन नयनयुगस्य साफल्ये हेतुमाह प्रियस्य हृद्यस्य-प्रियलाम एवामृतम्नान्यत्किमपीत्यर्थालाममृते विहाय अपरं किमममृतम् ? अमृतवत्तृप्तिजनकम् ? न किमपीत्यर्थः / अत्र नयनयुगसाफल्यस्य विशेषस्य वैधhण प्रियलाभान्यामृतत्वनिषेधरूपसामान्येन समर्थनादर्थान्तरभ्यासोऽलङ्कारः // 8 // ત્યાં રાજપુત્રે પત્થરથી બનાવેલી પુતલી જોઈ પિતાના બે નેત્રોને સરળ માન્યા અમૃત પ્રિય લાભ શિવાય બીજું શું છે ? 583 दशशतीं स समैहत चक्षुषां, दशशतेक्षणवत् कमलेक्षणः / विषयमृतिमिमामवलोकय-अपयनस्थितिरूपमनोरमाम् // 84 // स कमलेक्षणः-कमले इवेक्षणे यस्य स तथा चक्षुरमीक्षणम् इति हैमः / अपपनानामवयवानां स्थितिरपूर्वरचना तस्या रूपं सौन्दर्य तेन मनोरमाम् चित्ताहादजनिकाम्-"अझं प्रतीकोऽवय. वोऽपधन" इति "रूपम् स्वभावे सौन्दर्ये" इति चामरः / “निवेशो रचनास्थिते'इति हैमः। इमां प्रस्तुतार विषयमूर्ति पुत्तलिकामवलोकयन् दशशतानि सहस्राणि ईक्षणानि नेत्राणि यस्य स ताश इन्द्रः तद्वत् चक्षुषां दशशती दशानां शतानां समाहारः दशशती ताम् समैहत समीहितवान् / द्वाभ्यां नेत्राभ्यां दशने तृप्यभावात् सहस्रर्लोचनैरित्यर्थः / दर्शने तु कथञ्चित्तृप्तिः सम्भाव्यते, दर्शनप्राचुर्यादिति भावः / / 4 / / કમલ જેવા નેત્રવાળે તે અંગેની રચનાને સૌંદર્યથી મનહર આ પુતલીની મૂર્તિને પિતાને ઈન્દ્રની જેમ હજાર નેત્રની ઇચ્છા કરતો હતો. 84 कठिनमस्य न तद् हृदयं कृतं, विदधता विधिना कथमन्यथा / सुमशरः कुसुमैरपि सायकै-रतितमां परिपीडयितुं क्षमः 1 // 85 // अस्य अमरदत्तस्य-हृदयं विदधता रचयता विधिना ब्रह्मणा कठिनम् दृढम् , पीडामहम् , सद्धृदयं न कृतम् / ननु कुतो हेतोरेतदुच्यते / इतिचेत्तत्राह-अन्यथा हृदयस्य दृढत्वे, कथम् केन प्रका. रेण सुमशरः पुष्पबाणः कामः कुसुमैः पुष्पनिर्मितैरतिकोमलैराघातायोग्यैरपि सायकैः बाणैः परिपीडयितुं व्ययितुं क्षमः, अभूदिति शेषः / यदि हि तद् हृदयं कठिनं स्यान्न कुसुमैः शरैः पीडयितुं शक्यम् स्यात् पीडितं तु तेन मन्यते यत् तद् हृदयं न कठिनमिति हेतोः साध्यस्य साधनादनुमानालङ्कारः, तलक्षणं यथा-'अनुमानं तु विच्छित्या हेतोः साध्यस साधनमिति |||