________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 213 આમ મનમાં ખૂબ વિચાર કરી ઘણાને ઉત્તમ વિચારમાં પટુ એવા તે બન્ને એક બીજાના ઘરમાં સુઈ જવાને બહાને ઘરથી નીકળી ગયા. 7 विदधतावनिशं गमनं च तो, विषयजातविलोकन विस्मितौ / कुसुमपत्तनबाह्यवनान्तिके, विबुधसम विलोकयतः स्म तत् // 8 // अब तयोर्गृहाभिर्गमानन्तरमभावितचरितमाह-तौ अमरदत्तमित्रमुदौ, अनिशम् सन्ततम्-"सन्तता विरतानिशमि" इत्मरः / गमनं विदधतौ विराममकृत्वैव गच्छन्ती, एतेन स्थिरलक्ष्याभावाद्यदृच्छागमनं सूचितम् / चः पूर्वोक्तनिर्गमनसमुच्चायकः / विषयजातस्य देशसमूहस्य विलोकनेन विस्मितौ विस्मयमापन्नो सन्तौ नानावैचित्र्यावलोकनादिति भावः / कुसुमेति कुसुमपुरे कुसुमेत्याख्यस्य पत्तनस्य नगरस्य पाटलिपुत्रापरनामकस्य-'पाटलिपुत्रं कुसुमपुरं' इति हैमः। बाह्यं यद्वनमुद्यानं तदन्तिके तत्पावें ताद्वर्णिन्यमाणं विबुधसन्म देवालयम्-"अमरा निर्जरा देवानिवशा विबुधाः सुराः" इत्यमरः / विलोकयतःस्म अवलोकयामासतुः / / 80 // દેશે દેખવાથી વિસ્મયને પામેલા તે બન્ને (મંદિર) દિવસને રાત ગમન કરતા કરતા કસમપુરના બહારના ઉલાન પાસે એક ચિત્ય જોયું. ૫૮ના पृथुशिलाशकलैरधिकौशल, सुघटितेऽपि जनै शमीक्षितः / न खलु सन्धिरलक्षितलक्षणै-रिव कदाचन यत्र विबुध्यते // 81 // अथ देवालयं वर्णयति-यत्र देवालये अधिकौशलम् कौशलमधिकृत्य,कौशलेनेत्यर्थः। पृथवो विशालाः याः शिलाः तासां शकलैः बृहच्छिलाखण्डैः कृत्वा सुघटिते, निर्मिते, अपि अलझितमज्ञातं लक्षणं निर्माणप्रकारो येषाम् तैः अतरिव, जनैः तौ-अथ च अलक्षितान्यनधीतानि लक्षणानि व्याकरण शाखाणि यस्तैयथासन्धिस्स्वरसंयोगो न ज्ञायते तथेत्यध्यर्थो शेयः भृशम् सावधानम्, ईक्षितः सन्धिः शिलाखण्डसंयोगे प्रदेशः कदाचन न नैव विबुध्यते ज्ञायते / तेनाद्भतनिर्माणकौशलं तत्रेति सूचितम् / तद्विबुधसन बिलोकयतः स्मेति पूर्वेणान्वयः // 8 // ( વિશાળ શિલાખંડોથી અત્યન્ત કોશલપૂર્વક બનાવેલ હતો, તે ખૂબ ખૂબ જોઈને પણ તે મન્દિરને સાંધો અલક્ષિત લક્ષણની જેમ જાણી શકાતો ન હતો. પ૮૧ विमलशीतलपुष्करदीपिका-सवननिर्मितिपावितवमको / तत इमौ त्रिदश्चायतनं गतौ; विविधचित्रसमाहितलोचनम् // 82 // ततः देवालयदर्शनानन्तरम्-विमलं शीतलं च य पुष्करं जलम् 'उदकं पाथः पुष्करमित्यमरः,' दीर्षिका वापी, “वापो तु दीर्घिका" इत्यमरः / तत्र सवनस्य स्नानस्य निर्मित्या विधानेन मजनाद्धेतोः पावितं पवित्रीकृतं वर्म शरीरं ययोस्तौ तादृशौ देवमन्दिरद्वारस्थदीर्घिकास्नानेन स्वच्छशरीरौ सन्तो इमो अमरदत्तमित्रमुदौ, त्रिदशायतनं देवालयम् , विविधेषु नानाजातीयेषु चित्रेषु आलेख्येषु समाहितं संसक्तम् रचनासौन्दर्याल्लोचनं यथास्यात्तथा गतो तस्मिन् कमणि तथागती प्राप्तवन्तौ // 8 //