________________ 212 ] श्रीशान्तिवावमहापाव्ये स्थापयित्वा, व्रतमवाप्य स्वीकृत्य दिवं स्वर्ग समुपेयतुः जग्मतुः। व्रतस्वीकारस्य हि स्वर्गापवर्गों फलमिति भाकः // 6 // : તે રાજા અને મત્રી બને તે જોઈ વૈરાગ્ય ભાવનાવાળા થઈ પિત પિતાનું પદ પિતા પોતાના પુત્રને આપી વ્રતનું ગ્રહણ કરી સ્વર્ગે ગયા. 6 तव सखेऽप्यवितास्मि विनिश्चितं, तनुकविघ्नमिमं लघु मा मुहः / इति सधैर्यवयस्यवचोऽमृतं, स परिपीय जगावथ मित्रमुत् // 77 // ___ सखे-तवेति तनुकविघ्नमित्यनेन महसम्बन्धे षष्ठी, विनिश्चितं ध्रुवं अविताऽस्मि रझिवास्मि, मतिसागरमन्त्रिवदह मिति शेषः / कमित्याह-इमं सम्भाव्यमानं तनुकमत्यल्पं विघ्नम् लघु त्वरया मा मुहः मा परिशोचीः। त्रातुरभावे हि परिशोचनमितिभावः / इत्युक्तप्रकारेण, सधैर्यस्य धैर्यवतः मित्रस्यामरदत्तस्य वचः अमृतमिव तत् परिपीय सादरं श्रुत्वा, अथ पश्चात् स मित्रमुत् जगौ // 7 // विषयसेवनवद्विषयस्थिति-स्तदियमाशु सखे ! परिमुच्यते / न खलु यत्र मनो दधते धृति, भवतु तत्र कथं विदुषां स्थितिः 1 // 7 // मित्रमुदुक्तिमेवाह-सखे ! विषयस्य शब्दादेः सेवनवत् , भोगवत्, विषये अस्मिन् देशे स्थितिः एव स्थानम् यथा विषयसेवनं न सुखाय किन्वन्ततो दुःखायैव कल्पते तथा तदेशस्थिविरपि दुःखायैवेतिभावः / तत्तस्मात् कारणात् इयमेतदेशे स्थितिः आशु परिमुच्यते, विलम्बे अनर्थान्तरस्यापि सम्भवादिति भावः / खलु निश्चयेन; यत्र मनः धृतिः स्वास्थ्यम् न नैव दधते धत्ते, दध् धातुर्वादिः, नतु धाधातुरिह प्रायः, तस्यैकवचने दधते इति रूपाभावात् / तत्र विदुषां स्थितिः कथं भवतु, तत्र विद्वद्भिने स्थातव्यम् , विद्वत्त्वहानेरिति भावः / / 78 / હે મિત્ર ! તમારા આ નાના ને નબળા વિબને અવશ્ય નિવારીશ મુંઝાએ નહિ આમ ધીર એવા મિત્રના વચનામૃતનું આદર સહિત પાન કરી તે મિત્રમુદ બે —હે મિત્ર ! વિષયનું સેવન જેમ ક્ષણિક છે તેમ વિષયોની સ્થિતિ પણ છે માટે શીવ્ર આ વિષયને ત્યાગ જ કરાય, જ્યાં મનનું ધૈર્ય ન ટકે ત્યાં વિદ્વાનોની આસ્થા કેમ હોય ? ન હેય. આ૭૭-૭૮ इति विचिन्त्य चिरं हृदि तावपि, प्रचुरचारुविचारविचक्षणौ / किल परस्परमन्दिरसुप्ततो-पधिमुखेन निरीयतुरीलयात् // 79 // अय देशाटनविचारानन्तरम्-वैराग्यानन्तरम् तयोश्चरितमाह इतीति-इति पूर्वोक्तप्रकारेण हृदि चिरम् विचिन्त्य, नतु त्वरया, अन्यथा विचारदोषसम्भवात् इति भावः / एतेन च तयोबुद्धिवैराग्यमुक्तम् / मतिमानेव हि चिरं विचारयति, मन्दस्तु सहसा प्रवर्तत इति / प्रचुरमत्यन्तं चारौ फलसिद्धिजनके विचारे विचक्षणी कुशलो तावपि परस्परम् , मन्दिरे या सुप्तता शयनक्रिया तद्रूपोपधिः तस्या उपधिः छलं तन्मुखेन तद्द्वारेण,एकः गृहानियन्मित्रगृहं शयनाय गच्छामीति क्व गच्छसीति पर्यनुयुञ्जानं पितृमात्रादिकं छलयित्वा, एवमन्योऽपि इत्यर्थः / आल्याद् गृहात् निरीयतुः निर्गतो, किनेत्यतिथे / छलाकरणे हि मात्रादेरवरोधसम्भवाद्विचारितेऽन्तरायापतेरपि सम्भवादिति भावः // 7 //