________________ 21. ] श्रोशान्तिनापमहाकाव्ये * पञ्चदशे अहनि-दिने समुपागते प्राप्ते सति-यौवनं लक्षणया मध्यकालं स्पृशति प्राप्नुवतिनृपपुत्रिकायाः प्रवररत्नवती उत्तमरत्नभूषिता कबरी केशपाशविशेषम्-'केशवेशे कबरी' इतिहैमः / क्षुरिकया क्षुराख्येणास्त्रविशेषेण परिभूय छित्त्वा, अयं दृश्यमानः एव,महत्तमः ज्येष्ठतरः, अमात्यसुतः, ब्रजति पलाय्य गच्छति, तत्तस्माद् हेतोः, युवत्याः केशकर्त्तनं महानपराधः तस्य सर्वाङ्गसौन्दर्यापहारकत्वात्, वत्रापि च राजपुत्र्याः, नहि वैधव्यं विना युवत्याः केशकर्तनं दृष्टम् , तत्रापि च मणिलोभादेव केशकनिमिति चौर्यमपि इति प्राणदण्डयोग्योऽपराधोऽयमिति भावः / भटाः आरक्षपुरुषाः ? धावत धावत, सम्भ्रमे द्विरुक्तिः / इति पूर्वोक्तप्रकारः, अवरोधचराणामन्तःपुरचारिणाम दासीप्रभृतीनामास्येभ्यः मु समुद्भवः यस्य मतादशः, गगनाङ्गणसृत्वरः आकाशमभिव्याप्तः, एतेन कलकलस्य तारस्वरप्रयोज्यत्वमुक्तम् , महान् दूरप्रसारी कलकलः कोलाहलः अभवत् // 69-70 / / પન્દરમો દિવસ આવ્યું છત ને અર્ધા દિવસ થયે છેતે શીધ્ર જે અંતઃપુરમાં રહેનારાઓના મુખે થતા આકાશમાં ફેલાતે મહાન કલાહલ થવા લાગ્યો. ૬૯મા આ મત્રીને મોટા પુત્ર રાજપુત્રીમાં શ્રેષ્ઠ એવી સંભાવતીને અંબેડ ચખથી કાપી તે જલ્દીથી ભાગ્યે જાય છે માટે યોદ્ધાઓ દોડે ડે. કા - सदसि तदिनिशम्य रुषाऽरुणः, वितिपतिवं जिनीपतिमादिशत् / सचिवनिग्रहणाय महाबलं, बलसमन्वितमाजिभयानकम् // 7 // सदसि सभायां स्थित इति शेषः, तत्कलकलम् , विनिशभ्य, उषा क्रोधेन अरुणः रक्तः विवण इत्यर्थः क्षितिपतिः, षाजी युद्धे भयानकम् परपक्षभयजनकम् , महाबलम् ध्वजिनीपतिं सेनान्यम् , बलेन सैन्येन समन्वितं सचिवनिग्रहणाय, मन्त्रिदण्डनाय समादिशदाज्ञापितवान् / अवन्ण्यकोपा हि राजान इति भावः // 7 // તે સાંભળી સભામાં કોધથી લાલ થયેલા રાજાએ મનેના નિમહ માટે યુદ્ધમાં ભયંકર સૈન્યયુક્ત મહાન બળવાન સેનાપતિને હુકમ આપ્યું. 71 सपृतनं पृतनापतिमागतं, समवगम्य बमाण स मन्त्र्यपि / अनुचरैर्भवतः परिवेष्टितो, नृपतिविज्ञपनं करवै सकृत् // 72 // पृतनापतिं सेनापतिम् , सपृतनं ससैन्यम् , आगतम् , समवगम्य ज्ञात्वा स मन्त्री मतिसागरोऽपि बमाण, निवेदितवान् , भवतः अनुचरैः परिवेष्टितः अतः पलायनादिशका त्वया न कर्त्तव्येतिभावः सकृत् एकं वारम्, न तु वारम्वारम् , तावतैव कार्यसिद्धेरितिभावः / नृपतेः विज्ञापनम् , करवे त्वदनुप्रहेणेति शेषः / पञ्चायदिच्छेस्तथाऽऽचरेरिति // 72 / / તે મત્રી પણ સેના સહિત સેનાપતિને આવે નેઈ વિચારીને બોલ્યો કે તમારા સેવથી ઘેરાયેલા મને એક વાર રાજને વિનંતિ કરવા દે. આકરા अनुमतः स च तेन समेत्य तं, वसुमतीशतमन्युमजिज्ञपत् / गणकवाक्यमथाहितपेटकोटनकर्मणि धर्मणि कर्मठम् // 73 //