SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ बा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 205 अतुलमाप फलं मतिसागरः, सचिव एव यथा विहितोद्यमः / वद स कोऽयमिति प्रतिरूपितः, स सुहृदा वदति स्म वदावदः // 52 // यथैव-मतिसागरः सचिवः मन्त्री विहितोद्यमः कृतप्रयत्नः सन् अतुलमनुपमम् फलमाप, तथा भयं निवारयिष्यामीति पूर्वेण सम्बन्धः / स त्वया दृष्टान्तितः अयं मतिसागरः कः कीदृशचरितः वद तच्चरित्रं कथय इतीत्थं सुहृदा मित्रेण मित्रमुदा प्रतिरूपितः जिज्ञासितः पृष्टो वा स वदावदः वक्ता, वदेरचि निपातनम् / वदति स्म कथयामास // 52 // જેમ મન્ની મતિસાગર પ્રયત્ન કરીને અતુલ ફળ પામ્યો હતે. મિત્રથી સમજાવાયેલે તેણે પૂછયું કે અમિતસાગર કોણ છે તે કહો ત્યારે તે કહેવા લાગ્યો. પરા अथमतिसागरचरिताङ्गभूतं नगरादि वर्णयन्नाहभरत एव पुरी किल मालिनी, कलकलिङ्गमहाविषयेऽस्ति या / निजसमृद्धिवितानसमुच्चय-रजयदेव पुरीममरावतीम् // 53 // भरत इति-भरते क्षेत्रे एव नत्वन्यत्र किलेत्यैतिौ, कले प्रसिद्ध कलिङ्गे तदाख्ये महाविषये महादेशे मालिनी तन्नाम्नी पुरी अस्ति, या मालिनी पुरी चम्पेत्यपरनाम्नी चरित्रान्तरे तथोक्तेः निजसमृद्धीनां प्रचुरधनधान्यादीनां वितानानां राशीनां समुच्चयैः समूहैः कृत्वा अमरावतीमिन्द्रपुरीम् पुरीम् नगरीमजयदेव इन्द्रपुर्यपेक्षयाऽप्यधिकसमृद्धिमती सेत्यर्थः // 53 // ભરતક્ષેત્રમાં ઉત્તમ એવા કલિંગ દેશમાં માલિની ચંપા નામે નગરી હતી જે પોતાની ઉચ્ચ સમૃદ્ધિ સમૂહથી દેવોની નગરી અમરાવતીને પણ જાણે છતતી હતી તેના કરતાં પણ ચઢિયાતી હતી. 53 नरपतिर्जितशत्रुरजायत, प्रथित विक्रम एव स तत्र यम् / स्वदयिताभिरजस्रमजीगपन , दिविषदो दिवि धर्मधुराधरम् // 54 // तत्र मालिनीपुर्याम् स तादृश एव प्रथितविक्रमः ख्यातपराक्रमः जितशत्रुः तमामा नरपतिः अजायत, यम् धर्मस्य धुरामप्रगामित्वं धरतीति स तादृशस्तम् धर्मस्य धुरायाः भारस्य धरम् धारकम् धर्मात्मानमित्यर्थः / दिवि स्वर्ग. दिविषदः देवाः स्वदयिताभिः देवीभिः अजस्रम सन्ततम, अजीगपनगापयाश्चक्रुः, न केवलं पृथिव्यां स्वर्गेऽपि ख्यातप्रभावः स नरपतिरिति भावः // 54 // ત્યાં પ્રસિદ્ધ પરાક્રમી જિતશત્રુ નામે રાજા થયે ધર્મધુરધર એવા જેને દેવો સ્વર્ગમાં હમેશાં પિતાની પત્નીઓ પાસે ગવરાવતા હતા. 54 अजनि तत्सचिवो मतिसागरः, स्वमतिवैभवरजितनागरः / सुरगुरुप्रतिरूपतयैव यन्-मतिमघस, विधिः श्रितकौतुकः // 55 // तत्सचिवः तस्य जितशत्रोनरपतेः सचिवः स्वमतिवैभवरञ्जितनागरः स्वमतिवैभवैः निजबुद्धिकौशलः रञ्जितः तोषितः नागरः, नगरलोकः येन स तादृशः मतिसागरः तदाख्यः अजनि अभूत्,
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy