________________ पा, विजयदर्शनसूरीश्वररचित्रवृत्तिसहिते बटमः सर्गः [ 203 योप्यामि इत्यर्थः / मिरिष्यामीति यावत् / अत्र त्वया वियुज्य गृहं गतः सन् मिलिज्यामीत्यर्थः / बाहुलकात् भविष्यति णकः युक् युंमिश्रण इति धातुः // 45 // પછી તે શવની વાત સાંભળી ડરી ગયેલ તે મિત્રમુદ અમરદત્તને કીધું કે મિત્ર ! આ રમતથી સવું, હવે આપણે બને ઘરે જઈએ. ૪પા अकथि तेन शवाननमध्यतः, पतितया भवतोऽपि किमेतया / / सहृदयास्त्यपराऽपि ममान्तिके, किमिति तन्न यथारुचि रम्यते ? // 46 / / तेन अमरवत्तेन अकथि, किमित्याह-शवेति / शवस्य वटवृक्षलम्बिशवस्य आननस्य मुखस्य मध्यतः मध्ये, सार्वविभक्तिकः तसिः / 'आननं लपनं मुख मि' त्यमरः। पतितया एतया कनकमोहिकया, भवतः अपि किम् ? न किमपि, त्वया खेदः कर्तव्यः, यद्वा तव किं विनष्टम् ? न किमपीत्यर्थः / ननु तदभावे कथं क्रीडनीयमिति चेत्तत्राइं-सहृदयं ! समानं हृदयं यस्य स तदा मन्त्रणे, मित्र ! अपरा अन्या, मम अन्तिके पार्वेऽप्यस्ति, तत्तर्हि किमिति कुतो हेतोः यथारुचि च यथेच्छं न रम्यते क्रोड्यते / क्रीडासाधनसस्वाद् गृहगमनं न युज्यते इत्यर्थः // 46 // ત્યારે તેણે કહ્યું કે એક મોહિ શબના મોઢામાં પડી ગઈ. તેથી તમારે શું ? હે મિત્ર ! મારી પાસે બીજી પણ મોહિયા છે. તે ઈચ્છા મુજબ કેમ ન રમાય ? 46 इति सुकोमलयाऽपि गिरोदितः, स सुहृदा रमते स्म न मित्रमुत् / वहति चेतसि चारुविरागतां, किमपि न प्रतिभाति हि देहिनाम् // 47 // इति-पूर्वोक्तप्रकारेण सुकोमलया हृदयावर्जकया मधुराक्षरया अपि गिरा-वाण्या सुहृदा मित्रेणा उदितः कथितः स मित्रमत न रमतेम नारमत, अरमणे अर्थान्तरं न्यस्यति-चेतसि चारुविरागतां दृढवैराग्यम् वहति प्राप्ते सति, देहिनां किमपि क्रीडादि न प्रतिभाति रोचते, रुचौ हि अनुरागः कारणम् , यद्विषये विरागः, कथं तद्रोचतां देहिने इति भावः // 47 // આમ મધુર વાણીથી કહેવાયેલ મિત્રમુદ્ર મિત્ર સાથે રમત ન હતો તે મનમાં અત્યન્ત વિરક્તિ पामि गयो / ( नयनी1) प्रदान 4 5 गमतु नथा. // 47 // अथ-अनन्तरम्अथ विहाय जवादपि तामुमो, निजनिजं सदनं समुपेयतुः / परिजने रमते मतिरङ्गिनां, न विजनेऽपि वने हि कथश्चन // 48 // उभौ भमरदत्तमित्रमुदावपि तां क्रीडाम् विहाय त्यक्त्वा जवात् शीघ्रं वेगाद्वा, वालानां हि एष स्वभावो यद्गृहं प्रति जवेन गच्छन्ति, इति भावः / निजनिजं सदनं समुपेपतुः प्रापतुः, ननु किमिति गृहमेव गतवन्तौ नान्यत्रेत्याशय गृहगमनं समर्थयति-हि यतः, अङ्गिनां देहिनाम् , मतिः बुद्धिः परिजने स्वसम्बन्धिजने पारिवारिकजने रमते रुचि धत्ते, कथञ्चनापि कथमपि विजने जनागमरहिते वने न रमत इत्यस्यानुवृत्तिः, अतः गृहमेव गतवन्ताविति भावः // 48 //