________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः . ..... / 199 कुलपतौ या भक्तिः तत्र परायणः प्रवणचेताः अत एव शुभमनाः उदाराशयः तपोवनम् प्रविवेश, गुरुसन्दर्शनार्थ मिति भावः // 33 // પહેલા તે હર્ષપુર નગર ગયો ત્યાંથી પાછો વળતો તે ઉજજયને વણિક દેવધર ગુરુ એવા તે જટાધારી મુનિની ભક્તિના લીધે શુભ ભાવે તે તપોવનમાં પ્રવેશ કર્યો. 33 अथ तस्मै कुलपतेः पुत्रार्पणं वर्णयतिकुलपति प्रणिपत्य विलक्षतां. प्रतिनिमित्तमपृच्छदथो वणिक् / गुरुरुवाच यथायथमेष च, प्रणयिनीनवसूतिरिहास्ति मे // 34 // वितरताशु तमद्भतलक्षणं, तनयमेव यथा भवतां वधूः / तमनुशास्ति तरी मयकाऽर्पितं, स च तथैव चकार विचारवित् // 3 // कुलपतिं जटाधरं प्रणिपत्य प्रणम्य, अथो अनन्तरम्, वणिग् देवधरः विलक्षतामौदासिन्यम्। विमनस्कतामित्यर्थः, प्रति विलझतायामित्यर्थः, निमित्तम् हेतुम् , 'कुतो भवान् विलक्ष' इत्येवमपृच्छत् , गुरुः जटाधरः यथायथम् यथावृत्तम् उवाच-एव देवधरश्व उवाचेत्यनुषज्यते / किमुवाचेत्याह-इह अत्र मे मम प्रणयिनी प्रियतमा, नवसूतिः सद्यः प्रसूता अस्ति, तम् अद्भुतलक्षणम् तनयम्, आशु शीघ्रं वितरत मह्यम् दत्त / यथा येन भवतां गुरुचरणानां वधूः स्नुषा मम प्रियतमा एव, मयका मया अर्पितम् तम् तनयम् अनुशास्ति तराम् पालयति तराम, विचारवित् , अवसरोचितविचारकुशलः स गुरुः जटाधरश्व तथैव, वणिगुक्तप्रकारेणैव चकार तनयं तस्मै अर्पयामासेत्यर्थः // 34 // 35 // પછી તે વણિક કુલપતિને નમીને ઉદાસીનતાનું કારણ પુછયું ગુરુએ સાચે સાચી વાત કીધી. ત્યારે તે છે કે અહીં મારી 51 નો જ પ્રસવવાની છે. તેને પિતાની વધૂની જેમ જ તે અભુત લક્ષણુંવાલે બાલક જલદી આપી દે એ આપેલા તે પુત્રને સારી રીતે રાખશે ત્યારે તે વિચારક કુલપતિએ તેમ જ કર્યું 34-35 अथ वणिप्रिया प्रवृत्तिमाहकुलपतिप्रतिपादितपुत्रकं, समुपलभ्य वणिग्दयिताऽतुषत् / युगमजीजनदित्यपि सर्वतः परिजनादपि सिद्धिमचीकरत् // 36 // वणिग्दयिता देवधरप्रियाकुलपतिप्रतिपादितम् कुलपतिना दत्तं पुत्रकं पुत्रम् , समुपलभ्य अतुषत् , तथा, युगम् यमलम् अजीजनत् इत्यपि इत्येवम्, सर्वतः सर्वत्र, परिजनादपि परिजनेष्वपि परिजनमुद्दिश्येति- 'यबर्थे पञ्चमी' सिद्धि प्रसिद्धिम् / अचीकरत् परिजनद्वारापि देवधरपत्नी अपत्ययुगलं प्रसूतेति लोके प्रसिद्धिः कारितेति भावः / / 36 / / તે વણિકની પત્ની કુલપતિએ આપેલા પુત્ર મેળવી અત્યન્ત ખુશ થઈને બેડલું ઉત્પન થયું છે એમ સર્વ ઠેકાણે પોતાના પરિજનોથી વાત ફેલાવી દીધી. 36