________________ 200 ] श्रीशान्तिनापमहाकाव्ये प्रमदया प्रमदोद्धतया समं, स गत उञ्जयिनीपुरमुत्सवात् / अमरदत्तमथाहत नन्दनं, त्वभिधया तनयाँ सुरसुन्दरीम् // 37 // प्रमदेन हर्षेण "प्रमदो हर्ष " इत्यमरः / उद्धतया परिपूर्णया पुत्रलाभेन प्रचुरप्रमोदसम्पन्नया प्रमदया खिया सह "प्रमदा मानिनो कान्ता" इत्यमरः / उज्जयिनीपुरं गतः स देवधरः अथ पश्चात् उत्सवात् उत्सवपूर्वकम् , अभिधया नाम्ना नन्दनम् पुत्रम् अमरदत्तम् , तु पुनः तनयां स्वकन्याम् सुरसुन्दरीमाह्वत कारयामास / पुत्रस्यामरदत्त इति तनयायाश्च सुरसुन्दरोति नामकरणमकरोदित्यर्थः / / 37 // પછી તે વણિક અત્યંત ખુશ એવી પત્ની સાથે ઉત્સવપૂર્વક ઉજજયિની નગરે ગયા પછી ત્યાં પુત્રને અમરદત્ત નામે કન્યાને સુરસુન્દરી નામે બોલાવવા લાગ્યો. 37ii ___ अथामरदत्तस्य मित्रसम्पत्तिमाहधनधनेश्वरसागरजीविताभ्यधिकमित्ररमादयिताभवः / / अमरदत्तसुहृत्समभूदिहासमगुणाकरमित्रमुदाह्वयः // 38 // इह उज्जयिन्याम् , धनेन धनेश्वरः कुबेर इव यः सागरस्तन्नामा श्रेष्ठी तस्य जोविताऽभ्यधिका मित्रश्रीत्याख्या दयिता तस्या भव उत्पन्नः, असमानामनुपमेयानाम् अद्वितीयानाम् गुणानामाकरः खानिरिव मित्रमुत् आह्वयः नाम यस्य स मित्रमुन्नामा मित्रानन्दाख्य इत्यर्थः / चरित्रान्तरे तथैव दर्शनात् मुत् आनन्दयोः पर्यायशब्दत्वात् , अमरदत्तस्य सुहृत् मित्रं समभूत् अजायत // 38 // તે અમરદત્તને ધન ધનેશ્વર સાગરને પ્રાણ કરતા પણ પ્રિય એવી મિત્રરમા પત્નીથી જન્મ પામેલા અનુપમ ગુણોની ખાણ જેવો મિત્રમુદ નામે મિત્ર હતો. 38 अथ वर्षत्तुसमवतारमाह-लोकत्रयेणयमवलोक्य समुन्नतमम्बरे प्रमदमान्तरमेव शिखण्डिनः / प्रकटयन्त्यपि नृत्यविधानतः स्तनिततुङ्गमृदङ्गरवानुगम् // 36 // यं जलभृत्समयम् , अर्थात् मेघसमयम, समयपदोपादानेन तत्समय एव मयूरनृत्यमिति कविसमयसूचनार्थम् , अम्बरे,आकाशे, समुन्नतम् घटाटोपप्रततम् / एतेन सजलत्वम् , ततश्चातिनीलत्वम् , तस्मादपि च दशनीयत्वमुत्कण्ठापादकत्वञ्चोक्तम् / अवलोक्य शिखण्डिनः मयूराः स्तनिततुङ्गमृदङ्गरवानुगम् स्तनितं गर्जितमेव तुङ्गोऽतिमहान तालबद्धः मृदङ्गस्य तदाख्यवाद्यविशेषस्य रवः ध्वनिः तमनुगच्छतीति तद्यथा स्यात्तथा, स्तनितरूपमृदङ्गध्वन्यनुसारेणेत्यर्थः / नर्तका हि मृदङ्गशब्दानुसन्धानेन नृत्यन्तीति भावः / एतेन मयूरनृत्त्येऽपि तालबद्धतोक्ता / नृत्यविधानतः-नृत्यरूपेण व्यापारेण, आन्तरम् हृदयस्थम्, प्रमदं हषमेव प्रकटयन्त्यपि, अपिरेवार्थ / जलधरशब्दो हि मयूरान् मदयतीति भावः / लोकेऽपि हि हर्ष सति नृत्यादिकं तत्प्रकटनार्थ कुर्वन्तीत्याक्तम् / सजलभृत्समयः उपययावित्यप्रेतनेनान्वयः / रूपकाऽलङ्कारः // 39 //