________________ बा. विजयदर्शनसूरीश्वररचित्तवृत्तिसहिते अष्टमः सर्गः . [ 197 निजकराज्यपदे विनिवेश्य स्थापयित्वा, नृपतिः मकरध्वजः प्रमदया खिया सह वने - तापसतां तपस्विव्रतम् ललौ, वानप्रस्थव्रतं गृहीतवानित्यर्थः / स्त्रिया सह तत्रैवाधिकारात् , अन्यत्र स्त्रीसाहित्यस्यासम्भवादितिभावः // 27 // ત્યાર પછી રાણીની વાત હિતને કરવા જેવી છે. એમ મનમાં ધારી રાજ પિતાના સ્થાને પોતાના પુત્રને મુકી તે પત્નીની સાથે જ વનમાં જઈ તપસ્વીપણાને સ્વીકાર કર્યો. પરણા यमपि गर्भमुवाह निकेतने, स्थितिमती मकरध्वजवल्लभा / स ववृधे जलसिक्तवसुन्धरा-निहितबीजगताङ्करवत्क्रमात् // 28 // मकरध्वजवल्लभा मदना निकेतने पूर्वकालीयगृहस्थाश्रमे, नतु वानप्रस्थे तत्र ब्रह्मचर्येणैव स्थितेः, अन्यथा व्रतभङ्गात् / स्थितिमती स्थिता सती यं गर्भम् उवाह धृतवत्यासीत , सोऽपि गूढगर्भः, जलेन सिक्तम् वसुन्धरायाम् क्षेत्रे निहितादुप्ताद्वीजाद् गतं जातमङ्कुरमिव ववृधे पुपोष // 28 // મકરધ્વજની પત્ની ઘરમાં રહેતી વખતે જે ગર્ભ ધારણ કર્યું હતું તે પાણીથી સિંચાયેલા ભૂમિમાં રહેલા બીજના અંકુરાની જેમ ક્રમશઃ વધવા લાગે. 28 नृपमुनिः समवेक्ष्य विशेषविद्रहसि तां समपृच्छदुवाच सा / प्रथम एष मया व्रतविघ्नभी-कलितया कथितो न भवत्पुरः // 29 // विशेषं गर्भादिलक्षणविशेष वेत्तीति स तादृशः विशेषज्ञः विशेषविद् नृपमुनिः राजर्षिः मकरध्वजः समवेक्ष्य उदरवृद्धिलक्षणविशेषेणोपळक्ष्य गर्भमिति शेषः / रहसि एकान्ते, ता स्वप्रियां तपस्विनीम् , समपृच्छत् गभविषयजिज्ञासां कृतवान्, एतत्सत्यं वा कुत एतदितिवेति भावः / सा मदना उवाच किमित्याह-व्रत विघ्नभीकलितया व्रते व्रतग्रहणे यः विघ्नः तस्माद् या भीः स्वधृतगर्भप्रकाशने तन्मोचनावधि: कालविलम्बः स्थात्, स च विघ्नान्तरस्याऽपि सम्भवान्न युक्तः, स्वस्य तत्रोत्साहाधिक्याञ्चति भावः / तया कलितया प्रस्तया मया भवत्पुरः भवदने प्रथमं प्रागेव एष धृतगर्भः न कथितः / एवञ्च एतत्सत्यमेव, अत्र च अन्यथा शङ्का च त्वया न कत्तव्येति भावः // 29 / / , ' વિશેષા એ તે રાજ મુનિ ગર્ભ ઈ એકાંતમાં તેને પૂછયું તેણી એ કીધું કે પહેલા વ્રત ગ્રહણમાં વિદ્ધના ભયના લીધે મેં તમારી આગળ વાત કરી નહિ. 29 अथ तस्याः पुत्रोत्पत्तिमाहकुलपतेः पुरतोश्कथि तेन तत्स च रहोऽधृत तां विततान्वयाम् / सकललक्षणसारसमन्वितं, सुतमस्त ततः समये सती // 30 // तेन नृपमुनिना तत् मदनायाः गर्भव्यतिकरम, कुलपतेः, मुनिकुलनेतुः .. पुरतः अग्रे अकथि कर्थितम् , गीपनस्य अयुक्तत्वादिति भाषः / स कुलपतिश्च तां विततान्वयाम् विनतः विस्तुतः प्रसिद्धो वा अन्वयः कुलं यस्याः सा ताम् सत्कुलप्रसूता मदनाम् रहः, गुप्तस्थाने अधृत-रक्षितवान् , वानप्रस्थानां