SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्री शान्तिनाथमहाकाव्ये પછી રાજા હસીને બોલ્યો કે હે પ્રિયતમે વૃદ્ધાવસ્થા ને કારણે હું લજા પામતા નથી. પણ મારા બધા પૂર્વ ધૌલાવાલ જોયા પહેલા વ્રતનું પ્રહણ કર્યું હતું પરકા - पूर्वोक्तिलक्षितभावमेव स्पष्टप्रतिपत्तये वर्णतिअहमहो ! विषयरुपलालितः, पलितवानपि नैव समाददे / इति विषादनिबन्धनमाशु ते, निगदितं मयका प्रियवादिनि // 25 // प्रियवादिनि ! विषयैः स्रक्चन्दनवनितादिभिर्भाग्यैः, उपलालितः, आवर्जितः, पलितवानपि श्वेतकेशोऽपि, अपिना पूर्वजानामपलितत्वसमुच्चयः / अहं स्वावमानने एकवचनम् / नैव, समाददे, व्रतमिति शेषः / इत्याश्चर्य, इति एतत् विषादनिबन्धनम् विषादकारणम्, न तु पलितत्वमात्रम् मयका मया ते तव आशु शीघ्रं निगदितम् कथितम्, यथा त्वम् मम विषादे अन्यथाभिप्रायं परित्यजेरिति भावः // 25 // અહે હું વિષયોથી છેતરાયેલો છતા ઘોલાવાલ વાલે થઈ ગયે, છતાં પણ જે વ્રતનું ગ્રહણ કર્યું નહિ. માટે હે પ્રિયવાહિની તમારી વચન મને શિઘ વિષાદનું કારણ થયું છે. રા हृदि निधाय तदुक्तमियं ततः, प्रियमुवाच रसाधिपतेः प्रिया / किमधुनाऽपि न तन्क्रियते तरां, फलितमेव जनैरुपवर्ण्यते // 26 // रसाधिपतेः रसायाः भूमेरधिपतेः राज्ञः, "भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा" इत्यमरः / इयम् सद्यः प्रस्तुता प्रिया राज्ञी, तदुक्तम् नृपोक्तम् , हृदि निधाय मनसाऽवधार्येत्यर्थः / ततः तदनन्तरम, प्रियम् नृपम् उवाच / किमित्याह-तत्तर्हि, व्रतग्रहणमिति वा / अधुनाऽपि पलितभावे जातेऽपि किं न क्रियते तराम् , कस्मान्न क्रियते, न कोऽपि तत्र प्रतिबन्धक इत्याशयः / अहं तु तवाज्ञावशवर्तिनि तवेच्छैव ममेच्छेति नाहं तत्र प्रतिबन्धिकेत्यन्तभूताशयः तथैव समर्थयति-जनैः कार्यकरणे. च्छुभिः, फलितम् एव न तु सङ्कल्पितम , उपवण्यते उच्यते / यो हि कर्ता सन् प्राग वदति किन्तु कृत्वैव वदति, पूर्वमुक्तावकरणेऽपवादसम्भवात् , तस्मात् शुभस्य शीघ्राऽऽचरणमेव वरमिति भावः / अत्र जनकृतफलितकथनोपन्यासेन सामान्येन व्रतग्रहणोत्साहसमर्थनादर्थान्तरन्यासोऽलङ्कारः // 26 // પછી રાજાની પત્નીએ તેનું વચન મનમાં ધારી રાજાને કીધું કે તે પછી હમણાં કેમ કરતા નથી, જે ક્રિયા સફળ હેય લગો તેની પ્રશંસા કરે છે. શારદા . अथ राज्ञः कृत्यमाहतदनु तद्वचनं हितमीहितं, समवधार्य सुतं विनिवेश्य तम् / निजकराज्यपदे नृपतिर्वने, प्रमदया सह तापसतां ललौ // 27 // तदर्नु तत्पश्चात् , राझीकृतसमर्थनानन्तरम, तद्वचनं तस्याः राज्याः वचनम् हितम, हितकारि, ईहितमभिलषितवेति समवधार्य मनसा निश्चित्य, तं पूर्ववर्णितम् सुतं पुत्रं कमलकेशरम् ,
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy