________________ तिनाथमहाकाव्ये ध्वन्यते, अशमयत् व्यलोपयत् , चेनजननशमनयोः यौगपद्यम् उच्यते / अत्रासाधारणदानसम्पत्तिवर्णनादुदात्तालङ्कारः / तल्लमणं यथा-"लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते” इति / / 18 / / રાજાની તે પત્ની નીતિથી શોભનારા ક મલકેશર નામે પ્રસિદ્ધ એવા પુત્રને જન્મ આપ્યો. તથા બધા યાચકોની લાંબા કાળની દરિદ્રતાને ધન આપી દૂર કરી. 18 अथ तनयोत्पत्यनन्तरम्विदितविद्यमवद्यपराङ्मुखं, दितधनुर्धरमानपरिश्रमम् / क्षितिपतिर्युवराजपदेऽथ तं, सचिववासनयाऽभ्यषिचत्समम् // 19 // क्षितिपतिः मकरध्वजो नृपः विदितविद्यम्, अधीतशास्त्रम् , अवद्यपराङ्मुख, अवद्यात्पापा. त्पराङ्मुखं निवृत्तम् , धर्माचरणपरायणमित्यर्थः दितधनुर्धरमानं परिश्रम, दितः खण्डितः-धनुधरस्य मानोऽभिमानो येन स तादृशः परिश्रमः धनुर्विद्याभ्यासो यस्य स तं तादृशम् धनुर्धराग्रगण्यम् तम् कमलकेसरनामकुमारम् सचिववासनया, सचिवस्य वासना संस्कारः तया समम् सचिवबुद्धयेत्यर्थः / युवराजस्य सचिववत्कार्यसहकारित्वादितिभावः। युवराजपदे अभ्यषिचत् युवराज निर्मितवानित्यर्थः // 19 // પછી મટીની રછા સાથે રાજા વિદ્યાના જાણકાર પાપથી વિમુખ ધનુર્ધારીઓના અભિમાનને શ્રમનું ખંડન કરનાર એવા તેને યુવર જ પદ ઉપર અભિષેક કર્યો. ૧લ્લા जितकलापिकलापकलापकं, नृपतिकेशकलापमथाऽन्यदा / व्यरचयद्विवरीतुमुपक्रम, स्वरुचि यावदसौ नृपवल्लभा // 20 // अथानन्तरं अन्यदा कदाचित् असौ नृपवल्लभा नृपप्रिया स्वरुचि निजेच्छयैवेत्यर्थः,नतु प्रेरणया, एतेन पतिसेवाऽनुरागः सूच्यते / जितोऽधः कृतः कलापिनां मयूराणां कलापस्य समूहस्य कलापःकलापानां बर्हाणां कलाप एव कलापकं समूहो येन स तादृशः तम् पुष्पादिगुम्फितत्वात् मयूरपिच्छादप्यधिकसुन्दरमित्यर्थः, नृपतिकेशकलापम्-नृपस्य केशपाशम् विवरीतुम् प्रसाधयितुम् , यावत् उपक्रममारम्भम् व्यरचयदकरोत् // 20 // पलितमभ्रतिरोहितचन्द्रमः, प्रकटितैककरभ्रमकारणम् / नृपतिमूर्द्धनि वीक्ष्य निरैक्षयत्, स्मितमुखी मुकुरेण महिष्यपि // 21 // पतिमूर्धनि तम् वीक्ष्य स्मितमुखी महिषी मुकुरेण निरक्षयदपि अभ्रेग मेघेन तिरोहितोऽन्तरितो यश्चन्द्रमाः तस्य प्रकटितः दृश्यमानः य एकः करः किरणस्तस्य भ्रमकारणम् भ्रमकरम् चन्द्रककरवद्धवलम् , पलितस्य विरलत्वोदककरोपमापलितम् वाधक्यश्वेतकेशम् वीक्ष्य स्मितमुखी भवान् वृद्धो जात इति परिहासकरणाय हसितमुखी, महिषी मुकुरेण दपणेन-“दपणे मुकुरादर्शावि" त्यमरः। निरैक्षयददर्शयदपि / अपिः स्ववीक्षणसमुच्चये // 21 // પછી એક દિવસ રાણી પોતાની રુચિએ મયુરપીછાને પણ જીતનાર એવા રાજાના કેશકલાપને