________________ पा. विषयवचनसुरीवररचितवृत्तिसहिते अष्टमः सर्गः / [ 193 ત્યાં શ્રેષ્ઠ એવા સૌન્દર્યનાં અંશોથી કામદેવ જેવો મકરધ્વજ નામે રાજા થયા. જેને જોઈને દેવોની સ્ત્રીઓ પોતાના વર–પતિને જોઈને વર શ્રેષ્ઠ કે પતિ માનતી ન હતી 15 सुवदना महिषी मदनाभिधा, तदवनीदयितस्य बभूव सा / स्वदयितापुरतः प्रशशंस यत्सुभमतां विनयानुगतां स्मरः // 16 // तदवनीदयितस्य नृपस्य मदनाभिधा नामैकदेशग्रहणे नामग्रहणमितिन्यायेन मदनसेनाल्येत्यर्थः तश्चरित्रान्तरे मदनसेनेति नामदर्शनात् मदननाम्नी सा लोकप्रसिद्धा सुवदना सुमुखी महिषी पट्टराझी बभूव, स्मरः कामःस्वदयितापुरतः स्वदयितायाः स्वप्रियायाः रत्याः पुरतोऽग्रे विनयानुगताम् अनुसृताम् विनयसहकारप्रकर्षवतीम् इत्यर्थः / यत्सुभगताम् यस्याः सुभगताम् सौन्दर्यम् प्रशंशस वर्णयामास / रतेरप्यधिकसुन्दरी सेत्यर्थः / अत्र कामस्य तया वर्णनाऽसम्बन्धेऽप्युक्तरसम्बन्धे सम्बन्धरूपाऽतिशयोक्ति, ततश्च रतेरप्यधिकसुन्दरीति व्यतिरेको ध्वन्यते // 16 // તે રાજાની મદના નામે પ્રસિદ્ધ એવી સુન્દર મુખવાલી રાણી હતી. કામદેવ જેની વિનયથી ઓતપ્રોત સુન્દરતાની પોતાની પત્નીની આગળ પ્રશંસા કરતા હતા. ll16 ___ अथ राज्या गर्भधारणमाहकमलराजिविराजिसरोवरं, शयितबुद्धतमा रजनीभरे / समवलोक्य निवेद्य महीभुजे, तदनु गर्भमधत्त नृपप्रिया // 17 // नृपप्रिया मदना, कमलराजिविराजिसरोवर, कमलानां राजयः श्रेणयः ताभिः विराजते इति तत्तादृशम्, कमलपक्तयुपशोभितम् , सरोवरम् तडागम् , कमलाकरमित्यर्थः, स्वप्ने इति अर्थादवगम्यते, शयितबुद्धितमा पूर्व शयिता पश्चाद् बुद्धा जागृता रजनीभरे-रजन्याः रात्रे भरेऽतिवेलायां निशीथे, चतुर्थयामे राज्यः समवलोक्य दृष्ट्वा महीमुजे राजे निवेद्य कथयित्वा, स्वप्नदृष्टंसरोवरमित्यनुषज्यते, तदनु तत्पश्चात् एतेन भ्रीयमाणगर्भस्य स्वप्नानुकूलतोक्ता / गर्भमधत्त // 17 // તે રાણી રાત્રે સ્વપ્નમાં કમળ સમૂહથી શોભિત તલાવ ઈ પહેલા સૂતેલી પણ જાગી ગયેલી છતી રાજાને તે જણાવીને ગર્ભનું ધારણ કર્યું. શ૧છા अथ तस्यास्तनयोत्पत्तिमाहअजनयत्तनयं नयशालिनं, कमलकेसरनामतया श्रुतम् / प्रणयिनी नृपतेरखिलार्थिना-मशमयच्च धनैश्चिरदुःस्थताम् // 18 // नृपतेः प्रणयिनी प्रिया मदना, कमलकेसरनामतया श्रुतम् , कमलकेसर इति नाम्ना प्रसिद्धम्, नयशालिनम् , नीतिज्ञम् तनयमजनयदनि 'स्वार्थे णिच् / तनयोत्पत्तिजन्यहर्षकृत्यमाह-धनैः, अखिलार्थिनाम्, सर्वयाचकानाम् , चिरदुःस्थताम्-चिरादागतम् दौगत्यम् , अत्र चिरपदमहिम्ना दुःस्थतायाम् पूर्वमन्येन शमनाशक्यत्वं सूचितम् , तेन च तादृशदुःस्थताशमनेन तस्या असाधारणवदान्यत्वं