________________ 192] नृपादिवत् इह भने अत्र डोके परत्र परलोके / शर्मणे सुखाय नहि भवेयुः / अपिना मनसा पारधास्तु काया नैवात्र परत्र शर्मदाः, किन्तु दारण विपाकतयांऽतिदुःखप्रदा एवेति सूचितम् / / 12 / / અમરદત્ત રાજા વિગેરેની જેમ વાણીથી પણ સેવાયેલે કષાય આ ભવમાં કે પરભવમાં કલ્યાણ માટે થઈ શકે નહિ પાપનું કારણ જ થશે. 12 इति निशम्य शुभानगरीश्वरः, प्रणिजगाद गुरूनमिवन्ध सः / अमरदत्तनृपादय एव के, त इह ये भगवद्भिदाहृताः // 13 // शुभा तदाख्या या नगरी तदीश्वरः स स्तिमितसागरः, इति पूर्वोक्तं निशम्य, गुरुन् स्वयः म्प्रभसूरीन , आदरार्थे बहुवचनम् / अभिवन्द्य, एतेन राज्ञो विनय उक्तः / प्रणिजगाद उवाच, किमित्याकाक्षायामाह-इह अत्र देशनावसरे, भगवद्भिः पूज्य:-"पूज्ये तत्र भवानत्रभवाँश्च भगवानपि" इति हैमः / ये अमरदत्तनृपादयः, उदाहृताः अमरदत्तनृपादिवदितिशब्देन उदाहरणतया निर्दिष्टाः, ते के ? तेषां चरितं कथयन्त्विति प्रश्नाशयः // 13 // આમ સાંભળી શુભા નગરીના રાજા સ્તિમિતસાગરે ગુરુને પ્રણામ કરીને પૂછયું કે આપ અહીં દષ્ટાન્ત આપે છે તે અમરદત્ત વગેરે રાજા કેણ હતા. 13 गुरुरुवाच नरेन्द्र ! निशम्यतां, समवधाय मनागपि दक्षिणे / भरत एव पुरं सुररोचितं, तिलकसंज्ञकमस्ति समृद्धिमत् // 14 // अथ कथां प्रस्तौति-गुरुः श्रीस्वयंप्रभसूरिः उवाच-किमित्याह-नरेन्द्र ! समवधाय सावधानो भूत्वा, नाप्रमादिना वस्तुतस्त्वं महीतुं शक्यत इति भावः। निशम्यताम् श्रूयताम् / किमित्याकाक्षायां का प्रस्तौति दक्षिणे भरते एव दक्षिणाईभरते सुरैः रोचितम्-सुरशब्देन रोचितम् तिलकसंझकं सुरतिलकाख्यमित्यर्थः, समृद्धिमत् धनधान्यादिव्याप्तम्-पुरम् अस्ति // 14 // ત્યારે ગુરુએ કીધું કે હે રાજા સહેજ સાવધાન થઈને સાંભળે દક્ષિણ ભારતમાં દેવોથી શોભાયમાન ને સમૃદ્ધિશાલી એ તિલકપુર નામે નગર હતો. 14 अजनि तत्र नृपो मकरध्वजः, प्रवररूपकलामकरध्वजः / यमवलोक्य परं घुसदङ्गनाः, भदधुरेव वरं न निजं वरम् // 15 // __ तत्र सुरतिलकपुरे, प्रवरेण रूपेण सौन्दर्येण कलया युवतिजनमनःसमाकर्षणादिरूपेण गुणेन च यद्वा प्रवरया रूपकलया सौन्दर्यरूपेण गुणेन मकरध्वजः कामः तदुपमः स इव, रूपवान् कलावाश्रेत्यर्थः / मकरध्वजः तमामा नपः अजनि / यम् नृपमवलोक्य, धुसदाम् दिषिसीदन्तीति तेषाम् देवानाम अजनाः खियः परमुत्कृष्टम् , निजानुरूपमित्यर्थः, वरम् पतिम्, श्रदधुः विश्वसन्ति स्म, अयमेव मः पतिरित्येवं सादरं मन्वन्ते स्मेत्यर्थः / निजं वरं पति, देवमित्यर्थः, नैव / देवादप्यधिकगुणशालिवादिति भावः / रूपादिमिर्देवाङ्गनाया अपि स कमनीय इति सारार्थः // 15 //