SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ . विपरीधररचितवृत्तिसहित अष्टमः सर्गः [189 - आतुरता सूचिता, श्रमजसपनोदाय विश्रामकरणात, सौमार्यचन्दनायुपभोगादरम सूचितः / तदपि मुन्यधिष्ठितमेव अपेरेवकारार्थत्वात् काननम् तत्पुरोगानं जवात् शीयमेव / यहा जबादित्यस्य परिबाह्येत्यत्रान्वयः / अभ्यसरदभिजगाम // 4 // તે રાજ કેટલોક કાલ સુધી ચાર ઘોડાઓને દેડાવી પરસેવાથી રેબઝેબ અંગ લેપવાના થયે છતે તે ઉલ્લાનમાં વેગથી ચાલવા લાગ્યો. મામા अयोपवनवर्णनेन सहेव राजानं स्तौतिकुसुमगुच्छविनम्रमहीरुह - प्रकरनिश्चलभृङ्गरुतैरलम् / क्षितिपतेः शरदिन्दुसहोदरां, यदुपवर्णयतीव गुणावलिम् // 5 // यत्काननम् कर्तृ कुसुमेत्यादि रूतैरित्यन्तम्-कुसुमाना पुष्पाणां गुच्छाः स्तबकाः तैः विनम्राणि यानि महीरुहाणां वृक्षाणां प्रकराणि समूहाः तेषु निश्चलाः मकरन्दबाहुल्यान्मनोज्ञादेकाग्रचित्तेन मनोहत्यपानासक्तत्वास्थिराः ये भृङ्गाः भ्रमरास्तेषां रुतैः शब्दैः कृत्वा, एतेन वनस्य कुसुमादिसमृद्धिरक्ता। शरदिन्दुः शरश्चन्द्रः लक्षणया मरीचिः, तस्य सहोदरां तुल्याम् , विशदामित्यर्थः / क्षितिपतेः राशः स्तिमितसागरस्य, गुणावलिम् कीर्त्यादिगुणश्रेणिम्, अलमत्यर्थम्, उपवर्णयतीव-उपवर्णनं करोतीव, स्तौतीवेत्युत्प्रेक्षा / भृङ्गरुतानामतथाभूतानामपि गुणोपवर्णनपरत्वेन सम्भावनात् / तत्र च शरदिन्दुसहोदरेत्युपमाङ्गीभूतेति सङ्करः / / 5 / / જે બગીચાઓમાં ફલના ગુર છાઓથી નમ્ર બનેલા વૃક્ષો ઉપર સ્થિર બેઠેલા ભ્રમરના ગુંજરવથી રાજાના શરદ ઋતુનાં ચંદ્રમા સમાન નિર્મળ ગુણ સમૂહને વર્ણવતો હતો જાણે. પા सुरभिशीतसमीरनिषेवितो, भवति तत्र स यावदपश्रमः / रहसि तावदमुं प्रतिमास्थितं, मुनिमपश्यदशोकतरोस्तले // 6 // तत्र उद्याने, स स्तिमितसागरो नृपः सुरभिशीतसमीरनिषेवितः सुरभिः सुगन्धिश्चासौ शीतः शीतलश्च तेन समीरेण मारुतेन निषेवितः स्पृष्टः शीतलमन्दसुगन्धपवनवीजितः सन्नित्यर्थः “सुरभिश्चम्पके स्वर्ण जातिफलवसन्तयोः / सुगन्धौ च मनोज्ञे च" इति कोषः / “समीरमारुतमरुदि" ति च / अत्र सुरभिशीतोक्त्यैव पवनस्य मन्दत्वलाभः / कम्पितलतापुष्पादेः गृहीतसलिलशीकरस्य च पवनस्यमन्दस्यैव सम्भवात् / यावता अपश्रमः, अपगतः श्रमो मागस्वेदो जवादश्ववाहनजन्यखेदो वा यस्य तादृशः, अपश्रमो खेदरहित इत्यर्थः भवति, तावद, श्रमापनोदसमकालमेवेत्यर्थः। अशोकतरोः तदाख्यवृक्षविशेषस्य, तले अधोभागे रहसि-ऐकान्ते, विजने इत्यर्थः / प्रतिमया प्रतिमास्थितं कायोत्सर्गमुद्रया ध्यानैकताने स्थितम् अवतिष्ठमानम् अमुं पूर्वोक्तं मुनिम् स्वयंप्रभमुनिम्, अपश्यत् // 6 // તે ઉલ્લાનમાં જેટલામાં રાજા સુગંધિત ઠંડા પવનથી શ્રમ રહિત થાય તેટલામાં એકાન્તમાં અશોક વૃક્ષ તલે પ્રતિમા ધ્યાને રહેલા તે મુનિને જોયા. દા
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy