________________ 188 ] श्रीशान्तिनाथमहाकाव्ये उपवने कचनापि गुरुः स्वयंप्रभमुनिः समवातरदन्यदा / दिनपतिं तपसां महसा जयनिधनतां तमसा प्रसमं दिशन् // 2 // अन्यदा, एकदा, क्वचनापि-अनिर्दिष्टनाम्नि कर्मिंश्चिदपि उपवने उद्याने तत्पुरोधाने तपसाम, महसा-सेजसा, "महस्तूत्सवतेजसोरि" त्यमरः / दिनपति सूर्य जयन्नधरीकुर्वन् अत एव तमसाम् अज्ञानानां पक्षे अन्धकाराणां निधनां नाशं प्रसभं प्रसह्य दिशन् कुर्वन् , सूर्यो हि बाह्यान्धकारात्मकस्यैव तमसः स्वभावत एव नाशकः, अयं तूपदेशबलादप्यभ्यन्तराज्ञानात्मकस्यापि तमसो नाशक इत्यतोऽपि सूर्या व्यतिरेकः / गुरूः स्वयंप्रभमुनिः समवातरत्समागतवान् समवासरत् // 2 // એક દિવસે તપના તેજથી સૂર્યને જીતનારાને અઝાનને હઠથી દૂર કરનારા એવા સ્વયંપ્રભ મુનિ કોઈ ઉધાનમાં સમોસર્યા. રા स्तिमितसागरभूमिपतिस्तदा, तुरगवाहविनोदमधिष्ठतः / परिसरं समियाय पुरः पुरस्सरदनेकपदातिपरिष्कृतः // 3 // तदा स्वयंप्रभमुनेः उपवने समागमनानन्तरम् स्तिमितसागरभूमिपतिः, स्तिमितसागराख्यराजा तुरगवाहविनोदम् तुरगस्याश्वस्य यो वाहः वहनं वाहः वाहनं गतिविशेषेण धावनम् स एव मनोरञ्जकत्वाद्विनोदः क्रीडा तम्, एतेन तस्याश्वहृदयगतिवेदित्वं विनोदप्रियत्वञ्चोक्तम् / अधिष्ठितः आश्रितः / सविनोदमश्वं गतिविशेषेण धावयन्नित्यर्थः / तथा पुरः नगरात् पुरस्सरन्तः पुरस्सरदनेक पदातिपरिष्कृतः अग्रे गच्छन्तः अनेके च ते पदातयः पादाभ्यां गच्छन्तः जनाः तैः परिष्कृतः परिवारितः, भूषित इत्यर्थः / यद्यप्यश्वारूढत्वात्स्वस्यैव पुरस्सरत्वं सम्भाव्यते, मा हत्वाच्च, तथापि उपलक्षणत्वात्सहचरा अपि पदातयः अश्ववाहविनोदे चारपश्चाद्भावस्य सम्भवात् पदातीनां पुरस्सरत्वोक्तिः / एतेन नृपस्य गमने हर्षोत्साहौ प्रदर्शितौ। परिसरम् नगरसमीपप्रदेशम् , यद्वा पुरः परिसरमित्यन्वयः। पुरः नगरस्य परिसरं समीपप्रदेशम् समियाय जगाम, “पर्यन्तभूः परिसरम्" इतिहैमः // 3 // ત્યારે અશ્વક્રીડામાં તત્પર સ્તિમિતસાગર રાજા આગળ ચાલતા અનેક પદાતિ સેથી શેભતો नानी पासेना धानमा गयो. // 3 // कमपि कालमसौ क्षितिपालकः, स चतुरः परिचाह्य तुरङ्गमान् / श्रमजलाविलगात्रविलेपनस्तदपि काननमभ्यसरजवात् // 4 // कमपि अल्पत्वादनिर्देश्यम्, एतेन विनोदापेक्षया मुनि समीपगमने आदराधिक्यं सूचितम् / कालम्, व्याप्तौ द्वितीया / असौ प्रकृतः क्षितिपालकः भूभृत्स्तिमितसागरः चतसृभिः सङ्ख्याभिः सह सचतुरः चतुःसख्याकान् , तुरङ्गमान अश्वान् , एतेन तस्य रथस्थत्वं सूचितम् / नहि एकेन चत्वारस्तुरङ्गमा वाह्या इति भावः, यद्वा चतुरः पटुस्स इत्यर्थः / परिवाह्य सविनोदं धावयित्वा, अत एव श्रमजलाविलगात्रविपनः अमेण अश्वपरिवाहनाऽऽयासेन कृतं यजलं स्वेदः तेन आविलं क्लिन्नम् , गात्रस्य शरीरस्य विलेपनं चन्दनायगरागः यस्य स तादृशः स्वेदक्लिन्नाङ्गरागः, एव, एतेन तस्य