SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ * ॐ अहम् * // अथ अष्टमः सर्गः // भवरुजापगमाय शमौषधं, सुलभ मेव, दिदेश गतस्पृहः / जगति यः स पुनस्त्रिजगद्भिषग् , भवतु शान्तिविभुभवतां श्रिये // 1 // अथाष्टमसर्गप्रारम्भे वर्णनीयचरित्रनायकमेवोपस्थितत्वात्स्वेष्टत्वाच्च प्रकृते स्वस्याप्युपकारको यथा स्यादिति सर्वजगदुपकारकत्वेन स्तौति य इति / यः गतस्पृहः गता विशिष्टज्ञानादिना विनष्टा दूरीकृता वा स्पृहा इच्छा, उपलक्षणत्वाद्रागादियस्य येन वा स गतस्पृहः वीतरागः, यो हि वीतरागस्तस्य न कदापि स्वार्थे अभिनिवेशः स्वार्थस्य नितरामभावात् किन्तु परार्थ एव, सातिशयितकरुणायाः उपयोगवन्ध्याया असम्भवात्तदाह-जगति विश्वे भवरुजापगमाय-भवस्य रुजा कर्मात्मकभावरोगः "रोगो रुजा इति हैमः " भव्याङ्गिसम्बन्ध्यपि आधारे आधेयकर्मोपचारात् / यद्वा भवे रुजा रोगः रागादिः मानसिकाधिव्याधिकारित्वात् परम्परया लौकिकपीडाकरत्वाच्च चमणि व्याघ्रो हत इतिवत् भवे इति निमित्तसप्तमी तथा च भवहेतुका रुजा रोगः अथवा भव एव रुजा, जीवानां हि भवावधिरेव रोगादिसम्भव इति भवे तदुपचारः तस्या अपगमाय नाशाय, शमः रागद्वेषाद्युपशमः स एव औषधम् औषधान्तरेण रागादिनाशस्यासम्भवात् , सुलभम् नत्वौषधान्तरवत्पराधीनत्वाद् व्याधिना प्राप्यत्वाच्च स्वाधीनत्वात् मनोनिरोधमात्रजन्यम् शमौषधन्तु मनोनिरोधश्चाभ्यासवैराग्याभ्याम्, तयोश्चात्मव्यापाराधीनत्वमिति संयमवतो न तदुलभमिति भावः, दिदेशः उपदिष्ट. वान् / एतेन तस्य भिषगन्तरवैलझण्यमुक्तम् , लोकिको हि भिषग नैकेन सुलभेन लौकिकमपि रोगमौषधेन व्याहन्तुमीशः, स्वयमेव च भवरोगाक्रान्तत्वात्कुतोऽन्यदीयभवरोगौषधं दिश्यात् / अयं तु स्वयं ताश रोगमुक्त: अलौकिकस्य दुश्चिकित्स्यस्यापि भवरोगस्य सुलभमेकमेव चौषधं देष्टुं प्रमुरिति भावः देष्टुमीष्ट इति / स, पुनरिति वाक्यालङ्कारे। त्रिजगद्भिषक-त्रीणि च तानि जगन्ति च त्रिजगन्ति तेषां तद्गतजीवानां भिषग्वैद्यः, वैद्यान्तरन्तु अन्यवैद्यस्तु यस्यकस्यचिदेव प्राणिनो रोगस्य भिषग अयन्तु त्रिजगतामेव भवरोगाकान्तत्वात्तेषाञ्चकमात्रसुलभशमरूपौषधदेशकः इति प्रसिद्धाश्विनीकुमारधन्वन्तर्यादिभ्यो व्यतिरेकः / शान्तिविमुः वर्णनीयचरित्रनायकत्वेन दृष्टिगोचरः श्रीशान्तिनाथः प्रभुः, भवतां पठितृश्रोतणाम् , श्रिये भवतु / यो हि त्रिजगद्भिषक ततो भवतां श्रीलाभोऽवश्यमाशास्य इति भावः / अत्र सर्गे प्रायः द्रुतविलम्बितं छन्दः, तल्लक्षणं यथा “द्रुतविलम्बितमाह-नभौ भरौ" इति // 1 // જેણે વીતરાગ સંસારમાં ભવરૂપી રોગની શાંતિને માટે સમરૂપી સુલભ ઔષધની દેશના આપી હતી તે ત્રણે જગતના વૈદ્ય શ્રી શાંતિનાથ ભગવાન તમારા કલ્યાણ માટે થાવ.
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy