________________ ___184 ] श्री शान्तिनाथमहाकाव्ये नयनप५ मनसिजमपि क्षामच्छायं व्यनक्ति विवेकवान् , नयनपदवीमापायैतौ नराधिपनन्दनौ // 157 // एतौ नराधिपनन्दनौ राजपुत्रावपराजिता-नन्तवीर्यो, नयनपदवीं दृष्टिगोचरमापाद्य प्राप्य विवेकवान तारतम्यग्रहणक्षमः जनः, दस्रौ अश्विनौ सूर्यपुत्रौ देववैद्यौ, सौन्दर्येण प्रसिद्धावपि, “नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ " इत्यमरः / द्रष्टुम् , रणरणकितां सोत्सुकत्वं न वितनोति करोतीत्यर्थः / ततोऽप्यधिकसौन्दर्यशालित्वादनयोः, अधिकगुणे लब्धे न्यूनगुणे इच्छा निवर्तते इति भावः / पुनस्तथा इलाभवे पुरूरवसि, नरेशे चक्रवर्तिनि, “पुरूरवा बौध ऐल उर्वशीरमणश्च सः" इति हैमः / श्रद्धालुत्वम् अयमेव सर्वाधिकः सुन्दरः इति विश्वस्तत्वं न यति, अनयोरपि सौन्दर्येण ततोऽन्यूनत्वादिति भावः / मनसिजं कामदेवमतिसुन्दरत्वेन विश्रुतमपि "शम्बरारिमनसिजः कुर रनन्यजः, इत्यमरः / क्षामा कशा न्यनेति यावत. छाया कान्तियस्य, अर्थात्तयोरेव. स तारशस्तम. व्यनक्ति वर्णयति / कामोऽप्यनयोः कान्त्या न्यून इत्येवं वर्णयति इत्यथः। अत्रोपमानभूतदखाद्यपेक्षया अनयोराधिक्यवर्णनाद्वयतिरेकः // 157 / આ બન્ને રાજપુત્રોને જોઈ લો કે અશ્વિનીકુમારોને જોવાની ઉત્સુકતા ધરાવતા રહ્યા નહિ. પૃથ્વી પર રહેલા રાજા વિષયે પણ શ્રદ્ધા નહિ રાખતા થયા હતા તે વિવેકીએ કામદેવને પણ અ૫ કાન્તિવાળા માનતા થયા હતા. ૧૫છા सा काचिन्न नितम्बिनी समभवद्या वीक्ष्य रूपं तयोः, पाण्डित्यं प्रकटीचकार न च तद् व्यावर्णयन्ती मुहुः / या तत्संगमपीहते स्म न हृदा नेत्रे स्तुवाना निजे, स्वप्ने तौ समवाप्य मोहनमयं नैवाऽऽपि सौख्यं यया // 15 // सा तादृशी काचिदपि नितम्बिनी योषा न समभवत् , सा केत्याह-या नारी तयोः कुमारयोः रूपं सौन्दर्य वीक्ष्य मुहुर्वारंवारं, तद्रपं व्यावर्णयन्ती पाण्डित्यं निजवाचः पटुतां न च प्रकटीचकार, सर्वाऽपि ताववर्णयदित्यर्थः / अतिदर्शनीयत्वेन हृद्यत्वादिति भावः। तथा या निजे स्वकीये नेत्रे यदेतौ हृष्टावित्येवं वर्णयन्ती, हृदा मनसा, तयोः संगमपि न ईहतेऽभिलषते स्म, भुवनमोहिनी तयोः सुन्दरतेति सर्वाऽपि तत्राष्टा इति भावः। सा न समभवदित्यत्रापि सम्बध्यते / तथा, यया नार्या स्वप्ने तौ कुमारौ समवाप्य मोहनमयं मोहनात्मकं कामक्रीडादिरूपं, सौख्यं सुखं नैव आपि प्रापि, सा न समभवदित्यन्वयः, तयोराकृष्टा तद्गतमनसा सुप्ता सर्वापि स्वप्ने तौ प्राप्य मनोऽनुकूलं सुखमनुभवति स्म / जाग्रदनुभूतमेव प्रायः स्वप्नेऽनुभूयते इति भावः / एतेन तयोः सौभाग्यगुणवत्तोक्ता // 158 / / એવી કોઈ સ્ત્રી નહિ હેય જેણુ એ તે બન્ને રાજપુત્રોનું રૂપ જોઈ તેને વર્ણવતી પિતાની ચતુરાઈ પ્રગટ કરતી ન હોય, અને પોતાના બને નેત્રો ને વખાણતી હતી તેના અંગ સંગની ઈચ્છા ન કરતી હોય કે સ્વમમાં તેને પામી મોહજનિત સુખ ન પામી હેય. 158