________________ बा. विषषवर्धनतूरीधररचितवृत्तिसहिते सप्तमः सर्गः [ 185 नृपः स्तिमितसागर समवलोक्य धानुकता, तयोनिजकुमारयो रतिकुमारसंवादयोः / अमन्यत न कञ्चन प्रबलमेव विदोषिणं, विलक्षमतिमार्गणं गुणविमुक्तिबद्धादरम् // 159 // स्तिमितसागरः नृपः, तयोः रतिकुमारं कामपुत्रं संवदेते निरन्ध इति तो तयोः, रविः कामप्रिया, सौन्दर्याधिक्यातिपुत्रविरोधिनोः निजकुमारयोरपराजितानन्तवीययोः धानुष्कता धनुर्धरत्वं समवलोक्य वीक्ष्य विलक्षं विशिष्टं विविधं वा लक्षं शरव्यं वेध्यमित्यर्थः / “झं लक्ष्यं शरव्यं च" इत्यमरः / तत्र मतिमार्गणं मतिपूर्वका मार्गणा बाणा यस्य स तथा तम् , यद्वा विलक्षः लक्षच्युतः मतिः बुद्धिरेव मार्गणः बाणो यस्य तं तादृशम् , कुमतिमिति यावत् / अत एव, गुणैः शौर्यादिभिः कृत्वा या विमुक्तिः राहित्यमत एव, बद्धं संसक्तम् , अविद्यमानं दरं भयं यतस्तत् महाभयमित्यथः / तयत्र तम् , शौर्यायभावादिति भीतम्, विद्वेषिणं शत्रुम् , कसनापि प्रबलं स्वाधिकबलं नेवामन्यत, तयोरपूर्वधानुष्कत्वेनातिबलत्वानुमानात् / / 159 // રાજા રિતમિતસાગર રતિના કુમાર જેવા પિતાના તે બને કુમારોનું ધનુર્ધરપણું ઈ કઈ પણ લક્ષથી યુત છે બુદ્ધિરૂપી બાણ જેના એવા ઈચ્છવા છતાં પણ અહિ નહિ કરી શકનારા ને ગુણથી રહિત થવાના અભિપ્રાય વાલાપૂર એવા શત્રુઓને પ્રબળ માન ન હતો. 159 बुद्धया प्राक् सम्पासितौ नृपसुतौ सौभाग्यमङ्गया ततो, गाम्भीर्येण मनोहरेण च ततोऽप्यौदार्यसंयोगिना / लावण्येन ततस्ततोऽतिरभसात् शौय्येण वर्येण तद, बञ्च्येऽहं किमहो ! विमृश्य तदिदं तौ यौवनेनाभितौ // 160 // नृपसुतौ वो प्राक् पूर्व बुद्धया समुपासितो सेवितो, ततः सौभाग्यस्य भाग्या सौभाग्यगुणेनेत्यर्थः / समुपासिताविति सर्वत्र सम्बध्यते / ततोऽपि औदार्यसंयोगिना मनोहरेण गाम्भीर्येण उदारतासहितेन भावगुप्तिसामर्थेन / ततः लावण्येन, ततः अतिरभसात् शीघ्रमेव वर्येण प्रशस्येन शौर्येण, तत्ततः, अहो इति विस्मये / अहं यौवनं वन्ये तत्सेवनवञ्चितं स्याम्, किमिति वितर्के, इदं विमृश्य इव तत्ताशौ तौ नृपसुतौ, यौवनेन वारुण्येनाश्रितो / बुद्धिमन्ती, सौभाग्यशालिनी, उदारी, गम्भीरौ, सुन्दरौ, शूरौ, युवानौ च तो जातो, इत्यर्थः / / 160 // તે બન્ને રાજકુમારોને પ્રથમ બુદ્ધિ ઉપાસના કરવા માંડી પછી સૌભાગ્ય ને ઉત્તમ ગંભીરતા તે પછી ઉદારતાની સાથે લાવશ્ય. ત્યાર પછી અત્યંત ઉતાવથી શ્રેષ્ટ વીરતા. અહા ! તે છે કેમ વંચિત રહે એમ વિચારીને જાણે. યૌવને પણ તે બન્નેનો આશ્રય કર્યો, બુદ્ધિમાન સુભગ ગંભીર ઉદાર અંદર ને વીર તે બે કુમાર યુવાવસ્થાને પ્રાપ્ત થાય. 16 * गुणानां विमुक्को त्यबने बद्ध आदरो येन स तथा तं निर्गुणमित्यर्थः /