SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ डा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः / ___[ 183 મહાબલી એવા રાજાએ હર્ષથી તેનું અનન્તવીર્ય એવું યથાર્થ નામ રાખ્યું કેમકે પ્રાણીઓને જેવું ભાવિ હોય છે. પહેલાથી જ તેવી ચેષ્ટાઓ થાય છે. 153 अङ्कतोऽङ्कमुपयातुमुद्यतौ, बालिकाभिरवनीभुजामिमौ / पाल्यमानवपुषी प्रयत्नतो, वृद्धिमापतुरथ क्रमेण तौ // 154 // अथानन्तरम् , बालिकाभिः बालचेष्टाभिः कृत्वा, अवनीमुजाम् सामन्तनृपाणाम् , अङ्कतः क्रोडतः एकस्मात् अङ्कमपरमुत्सङ्गमुपयातुमुद्यतावुत्सहमानौ बालानामेष स्वभाव इति भावः / तौ इमो अपराजितानन्तवीर्यो, प्रयत्नतः पल्यमानवपुषौ सन्तौ, क्रमेण वृद्धिमापतुः // 154 // એક ખેલામાંથી બીજા ખેલામાં જવાને તત્પર એવા રાજાના આ બે બાલકે ધાવમાતાની નજરે રીરનું પાલન કરાતા ક્રમે ક્રમે વધવા લાગ્યા. ll154 कामपाल-गरुडध्वजाविमौ, श्वेतकृष्णवपुषौ विरेजतुः / संगतावधिकहार्दतो मिथः, क्षीरवाद्धिलवणाम्बुधी इव // 155 // इमौ अपराजिता-नन्तवीर्यो, श्वेतं गौरं कृष्णं कृष्णवणं च वपुः ययोस्तौ तादृशौ, कामपालः बलदेवः गरुडध्वजः गरुडो ध्वजे यस्य स तथा विष्णुः वासुदेव इति यावत् / द्वयोरपि तयोः गौरकृष्णवर्णत्वादिति भावः / विरेजतुः शुशुभाते, तथा अतिहार्दतः अतिशयप्रेम्णा "प्रेमा ना प्रियता हार्दम्" इत्यमरः / मिथः परस्परं संगतौ एकत्र क्षीरेण गौरत्वमपरत्र निर्मलजलेन नीलिमा इति हेतोरिति भावः, विरेजतुरिति सम्बध्यते / उपमाऽलङ्कारः // 155 // ગારને કૃષ્ણ વર્ણવાળા આ બન્ને બલભદ્રને વાસુદેવ અત્યન્ત પ્રેમથી ભેગા થયેલા ક્ષીરસમુદ્રને ક્ષાર સમુદ્રની જેમ શોભતા હતાં. 155 उद्धवैः शुभदिने समर्पितो, तौ कलागुरुरशिक्षयत्कलाः / स्थान एव विनयो नियोजितः, किं करोति न मनीषितं नृणाम् 1 // 156 // . कलागुरुः पण्डितः, शुभदिने, उद्धवैः उत्सवपूर्वकम् “मह उद्धव उत्सवः” इत्यमरः / समर्पितौ शिक्षणार्थ दत्तौ पित्रा, तौ अपराजितानन्तवीर्यो, कलाः शास्त्राणि अशिक्षयत् , शिक्षायाः साफल्यं समर्थयति-स्थाने प्रतिभादिसमन्विते पात्रे एव नियोजितः निहितः, विनयनं विनयः शिक्षा, किमिति प्रश्ने, नृणां मनीषितमभिलषितं न करोति ? अपि त्ववश्यं करोति इत्यर्थः / अत एव तादृशे पात्रे शिक्षा समाप्ता सफला चेति भावः // 156 / / / શુભ દિનમાં ઉત્સવ પૂર્વક સૌ પહેલા તે બન્ને કલાગુરુએ કલાઓનું શિક્ષણ આપ્યું અવસરે પાત્રમાં કરાયેલો વિનય મનુષ્યોને શું ઈષ્ટ નથી કરતી પણ કરે છે. 156 रणरणकितां दसौ द्रष्टुं जनो वितनोति न, श्रयति न पुनः श्रद्धालुत्वं नरेश इलाभवे /
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy