________________ ___ 182] श्रीशान्तिनापमहाकाव्ये मेभूमिरिव कल्पशाखिनं, श्यामलं सुतमस्त सा सुखम् / भाग्यमङ्गिललितात्मनां नृणां, न प्रसूतिजमर्श प्रसा श्रयेत् // 150 // मेरुभूमिः कल्पशाखिनं कल्पवृक्षमिव, स अनुद्धरा, सुखमक्लेशं यथा स्यात्तथा, श्यामलं श्यामवर्ण सुतमसूत / ननु प्रसवे दुःखावश्यंभावात् सुखमिति कथमिति चेत्तत्राह-भाग्यस्य भंग्या वैचित्र्येण वैलक्षण्येन कृत्वा ललितः सुसम्पन्न आत्मा येषां तेषां भाग्यशालिनां नृणाम् , प्रसूः जननी प्रसूतिजम् 'आमनस्यं प्रसूतिजम्' इत्यमरः / अशं दुःखं न श्रयेत् श्रयते // 15 // મેરુ પર્વતની ભૂમિ કલ્પવૃક્ષને જેમ, તે અનુદા યામવર્ણ પુત્રને સુખથી જન્મ આપે, ઉત્તમ ભાગ્યશાલી મનુષ્યોની માતા પ્રસુતિ કષ્ટને પ્રસવ પીડાને પામતી નથી. ૧૫ના मागधा द्रविणमापुरीप्सितं. गायनाश्च विपुला अलकृतीः / प्रीणितानरपतेः सुतोद्भवात् , शर्मणे न खलु कस्य तादृशः 1 // 15 // सुतोद्भवाद्धेतोः प्रीणितात्प्रसन्नान्नरपतेः सकाशात् , मागधाः मङ्गलपाठकाः ईप्सितम् द्रविणं धनं गायनाः नर्तकादयश्च विपुलाः बह्वीः अलङ्कृतीः भूषणान्यापुः प्रापुः, तादृशः सुतोद्भवः प्रीणितो नरपतिश्च, कस्य शर्मणे सुखाय, न खलु ! अपि तु सर्वस्यैव सुखाय कल्पते इत्यर्थः // 15 // પુત્રના જન્મથી ખુશ થયેલા રાજ પાસેથી ભાટ ચારણાને ઈચ્છા પ્રમાણે દ્રવ્ય ધને મેળવ્યાં ને ગાયકે ઘણુ અલંકારો મેળવ્યા તે બાલક કેના કલ્યાણ માટે નથી થતો ? બધાના જ કલ્યાણ માટે થાય છે. 151 वेदशास्त्रयुगलेन वा बुध-चन्द्रसूर्ययुगलेन वा नमः / अर्थकामयुगलेन वा वृष-स्तद्वयेन नृपतियंभूष्यत // 152 // वेदस्य शास्त्रस्य मन्वादिस्मृतेश्च युगलेन द्वयेन, बुधः पण्डितः, वा इव, "व वा यथा तथा वैवं साम्ये " इत्यमरः, चन्द्रसूर्ययुगलेन, नभो वा आकाशमिव, अर्थकामयुगलेन, वृषः गृहस्थधर्मो वा, तयोः पुत्रयोः द्वयेन, नृपतिः व्यभूष्यत शोभते स्म / / 12 / / જેમ વેદ ને શાસ્ત્ર આ બેથી પંડિત ચંદ્રમાને સૂર્ય આ બેથી આકાશ અર્થ અને કામ આ બેથી ધર્મભૂષિત થાય, તેમ તે બે પુત્રોથી રાજા ભૂષિત થયો. ૧૫રા तस्य नाम विदधे महीभुजा-ऽनन्तवीर्य इति सान्वयं मुदा / मावि यादृशमहो ! शरीरिणां, तादृशं भवति चेष्टितं पुरा // 153 // महीमुजा स्तिमितसागरेण मुदा सहर्षम्, तस्य पुत्रस्य अनन्तवीर्य इति साम्वय मन्वर्थ नाम विदधे, अहो इत्यानये, शरीरिणाम यादृशं भावि, तादृशं पुरा प्रथमत एव, चेष्टितं व्यापारः भवति // 153 //