________________ 18. ] श्रीशान्तिमाथमहाकाव्ये चक्रवाकमिथुनानि हर्षयन, पद्मजातिमभितो विकासयन् / सर्वशोऽपि ककुभः प्रकाशयन्, संहरंश्च तिमिराण्यहपतिः // 143 / / तिमिराणि अन्धकारान्, संहरन, नाशयन् , अत एव सर्वशः साकल्येन अपि ककुभः दिशः प्रकाशयन . पद्मजाति पनानां या या जातिस्तां सर्वजातीयपद्मानि अभितः सर्वतः विकासयन , चक्रवाकमिथुनानि, संयोगापादनात् हर्षयन् अहर्पतिः सूर्यश्च स्वप्ने दृष्ट इति शेषः ।।१४क्षा पद्मिनीदलगताम्बुमौक्तिक-क्षोदनिर्मलजलौघपूरितः / कण्ठदेशनिहिताम्रपत्रकः, पूर्णपूर्णकलशोऽथ शोभितः // 14 // अथानन्तरम् , पद्मिन्याः दले पत्रे गतानि स्थितानि यानि अम्बूनि जलबिन्दवः तद्वन्मौक्तिकानां झोदरचूर्ण तद्वच्च निर्मलाना जलानामोधैः समूहैः पूरितः, कण्ठदेशे कम्बौ निहितानि घृतानि बाम्राणां पात्राणि एव पत्रकाणि यस्य स तादृशः, अत एव शोभितः, पूर्णः पूर्णकलशः स्वप्ने दृष्ट इति शेषः // 144 / / वाहिनीभिरधिकं समाश्रितः, सार्वभौम इव जीवनाश्रयः / आगताभिरतिसारसद्रसैः, सत्त्वमादधदपांनिधिस्ततः // 145 // ततः कलशविलोकनानन्तरम् , आगताभिः वाहिनीभिः नदीभिः सेनाभिश्च अधिकमविशवेन समाश्रितः मिलितः परिवेष्टितश्च जीवनानां जलानां प्राणवृत्तीनां च आधारत्वने पालकत्वेन च आश्रयः अवलम्बः अति अत्यन्तसारा बलाधायकद्रव्यविशेषाः अत्यन्तं निर्मलत्वादिभिः कृत्वा श्रेष्ठाश्च मे सद्रसाः उत्तमाः रसाः जलानि, रसायनानि च, तैः कृत्वा सत्त्वं बलं गम्भीर्य यादासि च, आदधत् धारयन् , अत एव, सार्वभौमः चक्रवर्ती स इव, अपांनिधिः समुद्रः स्वप्ने ददृशे इति शेषः // श्तेषोत्थापितोपमा // 145 // रत्नराशिरथ तेजसां भरै-न्तिसंहतिविधूननक्षमः / द्वादशार्कमहसां समुच्चयः, किं वयं समुदितो मुखाशया ? // 146 / / अथानन्तरम् , तेजसा भरैस्समूहैः कृत्वा, ध्वान्तानां तमसा संहतेः समूहस्य विधूनने माशने क्षमः समर्थः, रत्नानां राशिः, स्वप्ने ददृशे इति शेषः / रत्नराशितेजांस्येवोत्प्रेक्षते-द्वादशार्काणामेव महसा तेजसा समुच्चयः राशिः, मुखं प्रथमं पूर्वमिति यावद, मुखशब्देन पूर्वा दिग्गृह्यते, दिग्गणने प्राथम्येन तस्या एवोपादानात , तया आशया दिशा 'दिशस्तु ककुभः काष्ठा आशाश्चेत्य' मरः / पूर्वतः इत्यर्थः / अयं रत्नराशिः समुदितः उदयं गतः, किं नु ! उत्प्रेक्षे इत्यर्थः / न होमानि रत्नराशितेजासि, किन्तु द्वादशसूर्यतेजास्येवेति संभावयामीत्यर्थः // 14 // जाड्यकालकमनीयसंगमः, सत्यनिर्मथितदाहशक्तिकः / न्वालजालकलितान्तरिक्षको, धूमसङ्गविकलो विभावसुः // 147 //