________________ -वाचार्यविजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 179 उत्सवे बहुविधे प्रसर्पति, प्रीतिपूर्वमपराजिताभिधा / भृभुजाऽस्य विदधे समन्ततो, द्वेषिभूपतिभयेककारणम् // 139 / / बहुविधे नैकप्रकारे उत्सवे प्रसर्पति जायमाने सति भूभुजा राज्ञा स्तिमितसागरेण प्रीतिः पूर्व यथा स्यात्तथा, सहर्षमित्यर्थः / अस्त्र शिशोः समन्ततः सर्वतोभावेन, द्वेषिणः शत्रवो ये भूपतयस्तेषां भयस्य एकं प्रधानं कारणम् , नामश्रवणादेव भयं यथा स्यादिति भावः, अपराजित इत्यभिधा नाम, विदधे चकार // 139 / / અનેક પ્રકારના ઉત્સવો થયે છત, રાજાએ હર્ષપૂર્વક સર્વ રીતે શત્રુ રાજાઓને ભય પમાડે એવું અપરાજિત એવું નામ કર્યું. 139aaaa अथ श्रीविजयजीवावतारमाहप्राणतत्रिदिवतोऽवतीर्णके, जीव एव विजयस्य राप्रिया / स्वप्नसप्तकमवैक्षतापरा, पुण्यगर्भमहिमानुभावतः // 140 // प्राणताख्यात् त्रिदिवतः दशमदेवलोकात् विजयस्य श्रीविजयस्य जीवे अवतीर्ण एवावतीणक: बस्मिन् , अवतीर्णमात्र एव. पुण्यस्य पुण्यप्राप्तस्य उत्तमजीवाश्रयत्वेन पवित्रस्य वा गर्भस्य महिम्नः प्रभावस्य अनुभावतः अपरा अन्या राप्रिया राशी अनुद्धरा, स्वप्नसप्तकं सप्त स्वप्नानवैक्षत // 140 // પ્રાણુત કલ્પથી શ્રી વિજયને છ અવતર્યો છd, રાજાની બીજી સ્ત્રી અનુદ્ધરાએ પવિત્ર ગર્ભના મહિમાના પ્રભાવે સાત સ્વપ્ન જોયા- ૧૪ના अथ वासुदेवजन्मसूचकान् सप्त स्वप्नानेव क्रमशो वर्णयतिकेसरी प्रथममेव वृत्कृते-दिग्गजानपि विभीषयन् शुमः / शारदेन्दुकरराशिकेशर-श्चञ्चलोचलविलोचनाञ्चलः // 141 // प्रथममादावेव, वृत्कृतैः सिंहनादैः, दिग्जान् अपि किमुतान्यानित्यपि शब्दार्थः / विशेषेण भीषयन, शारदेन्दोः शरच्चन्द्रस्य कराणां मयूखानां राशिरिव धवलाः केसराः सटाः यस्य स तादृशः, चञ्चला विद्युत् सेव चले इतस्ततो घूर्णिते विलोचनयोनयनयोरञ्चलो प्रान्तभागौ यस्य स तादृशः, दर्पोद्धरः विचिक्रमिषुश्चेत्यर्थः, अत एव शुभः शुभलक्षणान्वितः शुभफलापादकश्च, केशरी सिंहः, दृष्ट इति शेषः, स्वप्ने इति च // 14 // चीरनीरनिधिनन्दना ततः, क्षीरनीरनिचयैर्मतङ्गः / पार्श्वतो विरचिताभिषेचना, पापीठविनिवेशितक्रमा // 142 // ततः केसरीदर्शनान्तरम्, पनं कमळमेवासनत्वात्पीठमासनं तत्र विनिवेशितौ स्थापितौ क्रमौ चरणौ यया सा तादृशी, पद्मासनासीनेत्यर्थ / तथा पाश्वतः उभयतः मताजैः मोरनीरनिचयैः कृत्वा, विरचितं कृतमभिषेचनमभिषेको यस्याः सा तादृशी कृताभिषेका, झीरनीरनिवेः क्षीरसमुदस्य नन्दना पुत्री लक्ष्मीरित्यर्थः, स्वप्ने ददृशे इति शेषः // 142 //