________________ 178 ] भीशान्तिनाथमहाकाव्ये धर्मबुद्धिरिव, धर्मबुद्धिर्यथा आन्तरं तत्त्वम् आत्मरहस्यं बिभर्ति तथेत्यर्थः, बिभराम्बभूव दधौ / मालोपमालङ्कारः // 135 // ત્યારથી માંડીને જ તે રાજાની પત્ની, જેમ ઉત્તમ નીતિ અર્થનું ને ધર્મબુદ્ધિ આત્મતત્ત્વનું ધારણ કરે છે તેમ ગર્ભનું ધારણ કર્યું. 135 गौरवर्णपरिपूर्णविग्रहं, कामपालकलिताग्रथलक्षणम् / सनिधानमिव सो वसुन्धरा, पुत्रमप्यजनयद्वसुन्धरा // 136 // सा वसुन्धरा गौरेण वर्णेन परिपूर्णः, यद्वा गौरः वर्णः यस्य स तादृशः, परिपूर्णः अविकलश्च विग्रहः शरीरं यस्य स तं तादृशम् , अत एव, कामपालः हलायुधः कृष्णज्येष्ठभ्राता 'कामपालो हलायुधः' इत्यमरः / तस्य कलितं धृतमपथं मुख्य लक्षणं येन तं तादृशम् , कामपालस्य गौरवर्णत्वादिप्रसिद्धेरिति भावः / पुत्रं वसुन्धरा पृथिवी, सन्निधानम् , अमूल्यनिधिमिव अजनयत् सूते स्म / उपमा // 16 // અને તે વસુધરા દેવી પૃથ્વી ઉચ્ચ રત્નને ઉત્પન્ન કરે તેમ ગોરવર્ણ ને સંપૂર્ણ અંગવાળાને બલભદ્રના મુખ્ય લક્ષણોથી યુક્ત એવા પુત્રને જન્મ પણ આપ્યો. 136 चेटिकाभिरभिवर्धितो नृप-स्तस्य जन्मनि परप्रमोदतः / निर्विकल्पमविकल्पितं परं, कल्पवृक्ष इव काक्षितं ददौ // 137 // तस्य पुत्रस्य जन्मनि जन्मनिमित्तं चेटिकाभिः दासीभिः, अभिवर्धितः कृतवर्धापनः नृपः कल्पवृक्ष इव, कल्पवृक्षतुल्यः नृपः, परं किन्तु, अविकल्पितं याचनं विनैव, कल्पनाया अविषयं वा प्रचुरमित्यर्थः, अत्र च पक्षे परमित्यस्य अतिशयेनोत्कृष्टं वाऽर्थः। निर्विकल्पं देयमेतन्नवेत्यादिविकल्पमकृत्वैव, काशितमिष्टं च ददौ / एतेन तस्य दानशौण्डत्वं दानातिशयं च ध्वन्यते, हर्षाद्धि लोकः सवस्वमपि दातुमुत्सहते इति भावः // 137 // ચેટિક વડે દાસીઓ વડે વધાયેલા રાજાએ તે બાળકને જન્મ થયે છતે અત્યંત હર્ષથી વિચારણા કર્યા સિવાય માંગ્યા વગર જ જેને જે ઈષ્ટ હતું તે કલ્પવૃક્ષની જેમ આપ્યું. ll૧૩ના द्वादशापि दिवसेश्वरानसौ, भूपतीनपि महौजसा सुतः / जेष्यतीति नृपतिविनिर्ममे, द्वादशेऽति किल नाम्न उत्सवम् // 138 // सुतः महता ओजसा बलेन प्रतापेन च द्वादश अपि, न त्वेकं द्वावेव वा, ओजसः महत्त्वादिति भावः / दिवसेश्वरान् सूर्यान् , पुराणादौ सूर्यस्य द्वादशात्मतया वर्णनादिति भावः / भूपतीनधि अनेकान् राजश्व, नतु कतिपयानेव, ओजसः महत्त्वादेवेति भावः, जेष्यति अभिभविष्यति, इति बुद्धथा, नृपतिः स्तिमितसागरः, द्वादशेऽह्नि दिने, एकादशे द्वादशे वाहि पिता नाम कुर्यादित्युक्तेरिति भावः। नाम्नः नामकरणस्य, उत्सवं विनिममे चकार, किलेत्यैतिहथे // 138 / / આ બાળક પિતાના મહાન બળ તેજથી બારહે સૂર્યને રાજાને જીતશે. માટે રાજા બારમે દિવસે તેને નામકરણોત્સવ કર્યો. 138