________________ 176 ] श्रीशान्तिनाथमहाकाव्ये તે રાજાની કામદેવની પ્રસિદ્ધ રતિને પ્રીતિ નામની પત્નીની જેમ અત્યન્ત પ્રિય એવી વસુધરાને અનુદા નામે બે પત્નીઓ હતી. 127 स्वीयमायुरुपभुज्य नन्दिता-वनामकमहाविमानतः / जन्तुरप्यमिततेजसश्च्युतः, संजगाम महिषीं वसुन्धराम् // 128 // स्वीयमायुरुपभुज्य नन्दितावत्तमहाविमानतः च्युतः, अमिततेजसः जन्तुः जीवः, वसुन्धरा महिषी संजगाम प्राप, तत्कुक्षाववातरदित्यर्थः // 128 // નંદિતાવર્ત નામના મહાવિમાનથી પોતાની આયુ ભોગવી અમિતતેજનો જીવ આવીને રાણી વસુધરાનાં ઉદરમાં ગયો. 128 सा सुखेन शयिता सुलक्षणा, तत्क्षणं प्रविशतो मुखान्तरे / स्वप्नकश्चितुर ऐक्षतोपदा–लम्भितानिन चतुर्दिगीश्वरैः // 129 // सुखेन शयिता सा वसुन्धरा सुलक्षणा, तत्मणं तस्मिन्काले, मुखान्तरे मुखमध्ये, प्रविशतः, चतुरः चतुःसंख्याकान , स्वप्ना एव स्वप्नकास्तान बलदेवजन्मसूचकान चतुर्दिगीश्वरैः चतुर्भिर्दिक्पालैः उपदासु लम्भितान् प्रापितान् उपहृतानिव ऐक्षत / उत्प्रेक्षा // 129 / / સારા લક્ષણોવાળીને સુખે સુતેલી તે રાણીએ ચાર દિફપાલો. ચાર ઉપહારો આપ્યા હોય તેમ સ્વમમાં ચાર સ્વપ્નો મુખમાં પ્રવેશતા જોયાં. ll૧રલા तद्विलोकनसमनन्तरं प्रिया-ऽजागरीनरपतेः शशंस च / ईदृशां मम फलं नु किं विभो !, स्याच्छुभं तदितरन्नवेति सा ? // 130 // तस्य स्वप्नस्य विलोकनस्य दर्शनस्य समनन्तरमनन्तरमेव प्रिया वसुन्धरा, अजागरीत्, नरपतेस्खा शशंस कथयामास, विभो ! ईशा स्वप्नानां फलं मम स्यानवा, स्याच्चेत्, शुभं किं नु अथवा, तदितरदशुभम् , इति शशंसेत्यर्थः // 130 // તે જોયા પછી તે જાગી જઈને રાજાને તે કીધું ને પૂછયું કે હે રાજા આવા સ્વમોનું શુભ ફળ થશે કે અશુભ ? ૧૩૦ના अथ स्वप्नस्वरूपमाहअभ्रमुप्रियतमो विलोकितः, कीर्तिराशिरिव मूर्तिमाश्रितः / जङ्गमस्तुहिनकाश्यपीधरः, शृङ्गपाटिततटो वृषोऽपि च // 131 // मूर्तिमाश्रितः कीर्तिराशिरिव अभ्रमोः प्रियतमः ऐरावतः, जङ्गमः संचरन् , तुहि नस्य हिमस्य काश्यपीधरः पर्वतः हिमाचलः, स इव तत्सदृश इत्यर्थः स क इत्याशङ्कायां विशेष्यमाह-शृङ्गाभ्यां कृत्वा पाटितं विदारितं तटं नद्यादेः कूल येन तादृशः वृषः बळीवर्दः अपि च विलोकितः, स्वप्ने इति शेषः द्वयोरभ्रमुवल्लभवृषभयोरुज्ज्वलत्वान्मूर्तिमत्कीर्तिराशित्वेनोत्प्रेक्षा इति बोध्यम् // 131 //