________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः / [ 175 - अथ तयोस्ततः च्युत्वोत्पत्तिस्थानमाह जम्बुनामनि महान्तरीपके, प्राग्विदेहसुषमाविशेषकम् / श्रीजयोऽस्ति विजयः सुखास्पदं, सत्यनामरमणीयसंज्ञकः // 124 // जम्बुनामनि महान्तरीपके महाद्वीपे जम्बूद्वीपे इत्यर्थः / प्राग्विदेहस्य पूर्वमहाविदेहस्य सुषमायाः परमशोभायाः विशेषकं तिलकरूपं सुम्वास्पदं स्थानं सत्यं नाम यस्य स सत्यनामा अन्वर्थनामा रमणीय इति संज्ञाऽऽख्या यस्य स तथा ततः कर्मधारयः / श्रिया जयो यस्य स श्रीजयः विजयोऽस्ति / / 124 // જંબુ નામે મહાદ્વીપમાં પ્રાવિદેહની લક્ષ્મીના તિલક સમાન સુખની ખાણ સમાન ને યથાર્થ મનહર નામવાળા શ્રીજયનામે વિજય છે. 124 तत्र सैतपुलिनेऽस्ति दक्षिणे, पुण्यधाम नगरी शुभाऽभिधा / पश्यता शतमखेन यां मता, चक्षुषां दशशती फलोत्तरा // 125 // तत्र रमणीये विजये दक्षिणे सैतपुलिने सीतायाः सीतानद्याः इदं सैतं च तत्पुलिनं सैतपुलिनं तस्मिन् पुण्यस्य धामास्पदम् , शुभाभिषा नगरी अस्ति, यां शुभानाम्नी नगरी पश्यता शतमखेनेन्द्रेण, चक्षुषां स्वनेत्रार्णा दशशती सहस्रम, फलोत्तरा सफला मता मानिता, नेत्रद्वयस्य ननगरनिरीक्षणेऽपर्याप्तत्वानेत्रबाहुल्येन सामस्त्येन तन्नगरवीक्षणात्तत्साफल्यमिति भावः // 125 // ત્યાં સીતા નદીને દક્ષિણ કાંઠે પુણ્યનું સ્થાન સમાન શુભા નામે નગર છે. જેને જોતાં ઈન્દ્ર પોતાની હજાર આંખને સફળ માને છે. ૧૨પા सङ्गरप्रहतशत्रसन्ततिः, सत्यसङ्गरशिरोऽवतंसकः / अन्वशान्नयसधांशुसागर-स्तां चिरं स्तिमितसागरः प्रभुः // 126 // सङ्गरे युद्धे प्रहता शत्रणा सन्ततिर्येन स तादृशः, तथा; सत्यसंगरेषु सत्यप्रतिज्ञेषु शिरोऽवतंसकः मुकुटस्वरूपः पुरुषोत्तमः, नयः नीतिरेव सुधांशुश्चन्द्रस्तस्य सागर इव प्रवर्तकः स्तिमितसागरः तन्नामा प्रमुः राजा, तां नगरी चिरमन्वशात् // 126 / / તે નગરમાં લાંબા કાળથી, યુદ્ધમાં શત્રુ સમૂહને નાશ કરનાર સત્ય પ્રતિજ્ઞા વાળાઓના શિરોમણિ સમાન ને નીતિરૂપી ચંદ્રમાના સમુદ્ર જેવા તિમિતસાગર નામે રાજા રાજ્ય કરતા હતા. ૧૨દા द्वे प्रिये अभवतां वसुन्धरा-ऽनुद्धरा च किल तस्य भूपतेः / प्रीतिरत्यमिधयेव विश्रुते, संवरद्विष इव प्रिये हृदः // 12 // तस्य भूपतेः बसुन्धरा तन्नाम्नी, अनुद्धरा तन्नाम्नी च, द्वे प्रिये भार्ये, संवरद्विषः कामस्य, प्रीतिरत्यभिधया एव विश्रुते ख्याते प्रीतिरतिनाम्न्यौ, हृदः प्रिये इव, अभवताम् / उपमा // 127 //