________________ 172 ] भोशान्तिनाथमहाकाव्ये ननु यावदेवावशिष्टं तत्रैव तत्साधनीयमिति चेत्तत्राहअन्तरेण परमायुरर्जना, श्रेयसो वितनुते न योग्यताम् वेश्मनि ज्वलति जातवेदसा, कस्य हास्यमपि नान्धुनिर्मितिः // 114 // अन्तरेण परमायुः चिरायुविना इत्यर्थः / श्रेयसः कल्याणस्य अर्जना उपार्जना, योग्यतामौचित्यं न वितनुते प्रथयति, अल्पायुके श्रेयोऽर्जनयोग्यतैव नास्तीति कुतः एतावदल्पे आयषि श्रेयस उपार्जनं कुर्वः इति भावः / अयोग्यत्वमेव समर्थयति दृष्टान्तेन-जातवेदसा अग्निना वेश्मनि गृहे ज्वलति दहति सति, अन्धोः कूपस्य निर्मितिः निर्माणं खननमिति यावत् , कस्य हास्यं हास्यपात्रं न ! अपि सर्वस्यैव हास्यमितिभावः / दृष्टान्तालङ्कारः // 114 // લાંબી આયુષ્ય ન હોય તે તેવી આયુષ્યનો લાભ મેક્ષની યોગ્યતા આપતે નથી ઢંકા આયુષ્યથી મોક્ષ સાધી શકાય નહિ ઘર અગ્નિથી બળતું હોય ત્યારે કુવાનું ખોદવું કોને હાસ્યકારક ન હાય હાય જ 114 सान्त्वनामतनुतां मुनीश्वरी, भूभुजोरथ तयोविषण्णयोः / खेदमेदुरहदौ युवां कथं, धीधनौ भवथ एवमुन्नतौ // 11 // अथानन्तरम् , मुनीश्वरी, विषण्णयोः अनुतप्तयोस्तयोः भूभुजोः, सान्त्वनामाश्वासनमतनुताम् प्राददताम् , सान्त्वनामेवाह-उन्नतौ उदाराशयौ, धोधनौ बुद्धिमन्तौ युवाम् एवमुक्तप्रकारेण खेदेन ग्लान्या जन्मव्यर्थत्वज्ञानजन्यया मेदुरं विसंस्थुलं हृद्ययोस्तौ तादृशौ खिन्नौ कथं भवथः ? खेदो न करणीय इत्यर्थः / यो हि धीमान उदाराशयश्च स न खिद्यति, खेदस्य नीचप्रकृतिस्वभावत्वात् / “विगतं नानुशोचन्ति, नराः पण्डितबुद्धयः / " इत्युक्तेरितिभावः // 115 // આમ વિષાદ પામેલા બન્ને રાજાને તે બન્ને મુનિ સાત્વના આપવા લાગ્યા, મોટા બુદ્ધિમાન તમો બને આમ શીદને ખિન્ન થાઓ છે ? li૧૧પ ननु गतस्य न खेदः, किन्तु शुभोपार्जनावसरो नास्तीत्यतः खेद इति चेत्तत्राहघस्रमात्रमपि सेवितं व्रतं, भोवतो भवति निर्वृतिप्रदम् / दीपिका विरचिताऽपि किं गृहे, नान्धकारनिकरं निरस्यति ? // 116 // घस्रमेकदिनमात्रमपि, किं पुनः द्विव्यादिदिनेविति भावः, भावतः निर्मलचित्तवृत्तितः, सेवितमनुष्ठानं व्रतं निर्वृत्तिपदं मोक्षदं सुखदं वा, “निर्वाणं निर्वृतिः सुखम्” इत्यमरः / भवति / तव तु षडविंशतिदिवसानामवशिष्यते इति तावद्वताचरणे तु सुकरा निवृतिप्राप्तिरिति शुभोपार्जनावसरो नास्तीति खेदो न कर्त्तव्य इत्यर्थः / अणुरपि विशेषोऽध्यवसायकर इति भावः / तत्रैव दृष्टान्तमाहगृहे, विरचिता प्रकाशितमात्राऽपि दीपिका, अन्धकारस्य निकर पुजं न निरस्यति दूरीकरोति, किम् ? अपि त्ववश्यं दूरीकरोतीत्यर्थः / व्रतं हि दीपकस्वभावं लेशमात्रतोऽपि स्वसाध्यसाधनसमर्थमिति भावः // 116 //