________________ मा. विषयदर्शनसूपीधररचितवृत्तिसहिते सप्तमः सर्गः [ 171 प्ररूपितं प्रवर्तितं धर्ममाचरत, येनार्हद्धर्मण नत्वन्यप्ररूपितधर्मेण, वः युष्माकमपि, शिवस्य कल्याणस्य सम्पदः समृद्धयः, उभयत्र इह परत्र च, स्थिराः अविनश्वराः एव संभवेयुः, अन्यथा तु नेति भावः // 110 / / હે લેકે ! તેથી સ્થિર મનવાળા થઈ જિનેશ્વરે પ્રરૂપેલા ધર્મનું પાલન કરે જેથી તેમ તમને બને લેકમાં કલ્યાણ કરનારી એવી સ્થિર શુભ સંપદાઓ-શુભ ગુણે થશે. 11 एवमस्य वचनं निशम्य तो, संसृतेः परिहतौ निबन्धनम् / पृच्छतः स्म परिशेषमायुषः, प्राञ्जलौ नवविनेयवन्मुनिम् // 111 // अस्य मुनेः एवम् उक्तप्रकार वचन संसृतेः संसार स्य, परहृतौ दूरीकरणे निबन्धनं कारणं निशम्य, तौ श्रीवजयामिततेजसी नवो या विनेयः शिष्यस्तद्वत् , प्राञ्जलौ सरलौ, मुनिम् आयुषः निजजीवितकालस्य, परिशेषमवशिष्ट मंशम् , कियदावयोरायुः परिशिष्यते इत्येव पृच्छतः स्म // 111 / / તેને આ વચન સાંભળી તે બન્નેએ ભવબંધનને રાગાદિનો ત્યાગ કર્યો નવા શિષ્યની જેમ હાથ એડીને મુનિને પોતાનું બાકીનું આયુષ્ય પૂછવું. 111 तो प्रति प्रणिजगाद चारणः, साधुरेव दिवसोनि विंशतिम् / षड्युतानि नियतानि संस्कृत-च्छन्दसामिव विभाजनाविधाः // 112 // चारणः साधुः, तौ नृपौ प्रति, प्रणिजगाद, किमित्याह-संस्कृतच्छन्दसा विभाजनायाः विधाः प्रकाराः इव, नियतानि निश्चितानि, मात्राच्छन्दसामसंस्कृतानां न संख्यानियमः किन्तु वर्णमात्रोभयाश्रितानां संस्कृतच्छन्दसा संख्या नियमः, तद्वत्, षड्युतानि विंशति दिवसानि षड्विंशतिदिवसानि षड्वंशतिदिनान्येव, आयुरवशिष्यते इति शेषः // 112 / / ત્યારે ચારણ મુનિએ તે બન્નેને કીધું સંસ્કૃત છના ભેદને વિશેષની જેમ નિશ્ચયે 6 સંખ્યા કરીને સાથે વીસ દિવસ 26 છવીસ દિવસનું છે, 112aa तच्छ्र त्वा तयोः पश्चात्तापमाहदुर्लभं मनुजजन्म हारितं, हा ! प्रमादमद संगमेन नौ। ईदृशं कथमहो ! निरर्थक, सर्वशस्यपुरुषार्थसाधनम् // 113 // हा इति पश्चात्तापे, नौ आवयोः दुर्लभं मनुजजन्म, प्रमादस्य मदस्य च संगमेन सम्पर्केण हारितं गमितम् , अहो इति मुहुः खेदे, सर्वेषां शस्यानां प्रशस्यानां पुरुषार्थानां यद्वा सर्वेषु जन्मसु शस्यमुत्तमं पुरुषार्थानां साधनम् , मनुजजन्म, ईदृशमेवंरीत्या कथं निरर्थकं मुधैव, हारितमितिशेषः, सफलमेतत्स्यात्तथा आवाभ्यां नाचरितमिति भावः // 113 / / ત્યારે તે બને પશ્ચાતાપ કરવા લાગ્યા કે અરે રે અમે બન્ને સઘલાં ધન્ય જેવા પુરુષાર્થ-ધર્મ અર્થ કામ મોક્ષનું સાધન એ દુર્લભ આ મનુષ્ય ભવ શી રીતે ફોગટમાં ગુમાવ્યો ? 113