________________ 170 ] श्री शान्तिनाथमहाकाव्ये યુલ વસ્થ માં કે વૃદ્ધાવસ્થામાં વિરક્ત થઈ ધર્મ કરીશ, આ વચન ધર્મરાજ યમરાજ તે મિત્ર બનાવ્યા સિવાય કોઈ બોલી પણ શકે શું ? ન બોલી શકે. ૧૦ળા ननु यस्य धर्मराजेन मैत्री, तेन कालक्षेपे का हानिरिति चेत्तत्राहबालिशं त्यजति नो न पण्डितं, नैव रङ्कमपि नापि चक्रिणम् / नैव देवमपि नापि वासवं, ऋद्ध एष शमनः कथंचन // 108 // क्रुद्धः, एतेन धर्मराजेन मैत्र्यसंभव उक्तः ऋद्धस्य स्वपरविवेकाभावात् तदाह-'क्रोधी हन्याद् . गुरूनपि' इति, एष शमनः यमः ‘शमनो यमराङ यमः' इत्यमरः / बालि मूखं नो त्यजति, पण्डितं न, क्रद्धस्य विवेकरहितत्वात्तत्र मुखत्वं पण्डितत्वं वा अकिश्चित्करम, रामकिश्चनमपि नैव, अकिञ्चनो हि दयापात्रं प्रसिद्धः तत्र चेन्नान्तकस्य दया, तह्यन्यत्र का चचा, एवं च क्रुद्धस्य न क्वापि दयासंभव इति सूचितम् / चक्रिणमपि न, सर्वतो हि भाग्यशाली चक्रवर्ती, तमाप न त्यजति, मनुष्या इवामरा अपि यमाधीना एवेत्याह-देवमपि नैव, वास देवेन्द्रमपि न, एवं चान्तकः सर्वतो बलवान् सर्वमेव हन्तीति स्वमरक्षितं मत्वा सद्य एव धर्म प्रवृत्तिः कार्येति भावः // 10 // કદ્ધ થયેલો પેલો યમરાજ મૂખે કે પંડિત, રંક કે ચક્રવત, દેવ કે ઇન્દ્ર, કોઈને પણ કઈ રીતે છોડતો નથી 108 ननु प्रार्थनादिभिः धर्मराजात्त्राणसंभव इत्यपि नेत्याहउत्तमर्ण इव न प्रतीक्षते, प्रार्थितोऽपि बहूभिश्चक्तिभिः / याममात्रमपि नो मुहूर्तकं, न क्षणं कुपित एप दण्डभृत् // 109 // कुपित एष दण्डभृत् काल: 'कालो दण्डधरः' इत्यमरः / उत्तमर्णः ऋणदाता इव, बहुभिः चटक्तिभिः प्रियोक्तिभिः, प्रार्थितः अपि. एतेन तातिनिर्दयत्वमुक्तम, याममेव याममात्रम् प्रहरं "द्वौ याम-प्रहरौ समौ" इत्यमरः / न प्रतीक्षते विलम्बते मुहूतकं मुहूत्तमपि नो, क्षणमपि नो, अत्युग्रः स्वनिश्चयेऽचलश्च स इति ततस्त्राणाशा सर्वथैव न युज्यते इति तत्काल एव धर्मः कार्य इति भावः // 109 / / કુપિત થયેલો તે યમરાજ ઘણી પ્રિય વાણુથી પ્રાર્થના કરાયા છતાં પણ દેણદારને લેણદારની જેમ જ પહેરે કે ઘડી કે ક્ષણવાર પણ પ્રતીક્ષા કરતો નથી સાહસ નથી. 109 अथोपसंहरतितजनाः ! जिनप्रतिरूपितं, धर्ममाचरत निश्चलाशयाः / येन वोऽपि शिवसम्पदः स्थिराः, संभवेयुरुभयत्र भाविनः // 11 // तद् धर्मराजस्यानिवार्यत्वान्नित्यं सन्निहितत्वेन मृत्योरनिश्चयाञ्च भाविनः हे भावुकाः जनाः। निश्चलाशयाः सन्तः, चञ्चलत्वे तु न कार्यसिद्धिः सामग्रथा एव विकलत्वादिति भावः / जिनपतिना