SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [7 अस्मिन् अभिनन्दिताजीवेऽपि गर्भस्थिते, अम्बया जनन्या स्वप्ने साभिषेका कृताभिषेका श्रीः लक्ष्मीः, यच्च यतश्च, समवैशि विलोकिता, तेन हेतुना पित्रा एष स्वकीयः निजः सुतः नाम्ना श्रीविजयः इति अभिधीयते कथ्यते स्म / श्रीविजयेति नाम कृतमित्यर्थः // 17 // તે ગર્ભમાં રહે તે માતાએ સ્વપ્નમાં અભિષેક કરાતી લક્ષ્મીને જોઈ હતી. માટે પિતાવડે પોતાને તે પુત્ર વિજયના નામે બેલાવ્યો. ૧છા - तस्यानुजोऽभूद्विजयादिभद्रा, भद्राकृतिर्ध्वस्तसमस्ततन्द्रः / ज्योतिःप्रभाख्या शिखिनन्दिताया, जीवस्तथाजन्यनुजा तदीयो // 18 // तस्य श्रीविजयस्य अनुजः कनिष्ठो भ्राता, भद्राकृतिः सुरूपः, ध्वस्ता नाशिता समस्ता तन्द्रा निद्राया आदौ अन्ते च यदालस्यं तल्लक्षणा येन स तादृशः। एतच्च सातिशयोत्साहसम्पन्नत्वसूचनायेति बोध्यम्। विजयादिभद्रः विजय आदिर्यस्मिन् भद्रशब्दे स तादृशः, विजयभद्र इति नामा अभूत् तथा शिखिनन्दितायाः श्रीषेणद्वितीयपल्या जीवः ज्योतिःप्रभाख्या तदीया विजयभद्रस्य अनुजा कनिष्ठस्वसाऽजनि // 18 // તેને શુભ સ્વરૂપવાળા અમાદી એ વિજયભદ્ર નામને ભાઈ થશે. અને શિબિનન્દિતાને જીવ જોતિઃપ્રભા નામની તેની નાની બહેન થઈ. 18iaa अथ कपिलस्य भवान्तरग्रहणमाह युग्मेनविप्रवः सोऽपि च सत्यभामा-पत्नीवियोगात कपिलस्तदाः / मृत्वा भ्रमित्वा सुचिरं भवौघं, चश्चानगर्यां चमराश्चितायाम् // 19 // विद्याधरेन्द्रोऽशनिघोषनामा, द्वेषिक्षमापालमहीध्रपक्षान् / भिन्दन् समग्रानशनीयमानः, स्वौजोभिरासीदसमानभावः // 20 // विप्रब्रुवः विप्रदासीपुत्रः सः कपिलः अपि, सत्यभामानाम्नी या पत्नी तस्याः वियोगात्, सदातः तत्पीडितः, मृत्वा, सुचिरं दीर्घकालं भवौघं जन्मान्तरसमूहं भ्रमित्वा चमराश्चितायां चश्चानगर्यां चमरचश्चापुर्यां समग्रान् सकलान्, द्वेषिणः प्रतिपक्षाः क्षमापालाः राजानः महीध्राः पर्वता इव तेषां पक्षान् इव पक्षान् बलादीन, भिन्दन अशनीयमानः, वज्रमिवाचरन् स्वस्य ओजोभिः प्रतापैः, असमानभावः अद्वितीयः अशनिघोषनामा विद्याधरेन्द्रः आसीदभूत् // 19 // 20 // દિજાધમ તે કપિલ તે વખતે સત્યભામાં પત્નીના વિયોગથી પીડાયેલે મરીને દીર્ધકાલ સુધી અનેક ભવોમાં ભમી અમરેન્દ્રથી યુકત એવી ચંપા નગરીમાં બધા શત્રરાજ રૂપી પર્વતની પાંખોને વજની જેમ ભેદવાવાળો પોતાના બળથી અતુલનીય એવો અશનિષ નામનો વિદ્યાધરેન્દ્ર થયો. ૧૯-૨વા भूपार्ककीस्तनयामुद्हे, प्रज्योत्सवैः श्रीविजयः सुताराम् / श्रीमत्रिपृष्ठप्रभवा प्रभाढ्या, ज्योतिःप्रभाख्याऽमिततेजसा च // 21 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy