SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विद्याधाराणामिन्द्रो ज्वलनो ज्वलनजटी विरक्तः जातवैराग्यः सन् पुत्रम् अर्ककीर्ति राज्ये विनिवेश्य स्थापयित्वा जगन्नन्दनेन साधुना संश्रितस्य सेवितस्य अभिनन्दनस्य तदाख्यमुनेः पावें दीक्षा आहती दीक्षा जग्राह / / 13 / * વૈરાગ્યને પામેલા વિદ્યાધરેન્દ્ર જ્વલનજીએ પુત્ર અર્ક કીર્તિને રાજ્યાભિષેક કરીને સંસારને આનંદ આપનાર એવા દે આદિથી સેવિત શ્રી અભિનંદન મુનિ પાસે દીક્ષા લીધી. 13 ___जीवः पुनः सत्यकिकन्यकायाः, सौधर्मकन्पाच्च्यवनोपपत्या / विद्याभृतो मेघवनस्य पुत्र्या, पुत्रीत्वमापत् सुकृतानुभावात् // 14 // पुनः सत्यकिकन्यकायाः सत्यभामायाः जीवः सौधर्मकल्पात् च्यवनोपपत्त्या च्यवनेन च्यवनं कृत्वा उपपत्या जन्मना सुकृतस्य पुण्यस्यानुभवात् प्रभावाद, विद्याभृतः विद्याधरस्य मेघवनस्य पुत्र्याः ज्योतिर्मालायाः पुत्रीत्वम् आपत् प्राप्तवती // 14 // તથા સત્યકિની કન્યા (સત્યભામા)ને જીવ સૌધર્મ કલ્પથી અવને પુણ્યપ્રભાને વિલાધરેન્દ્ર મેઘવનની પુત્રી (જ્યોતિર્માલા)ની પુત્રીપણાને પામે. 14 अथ तस्या नामकरणमाहस्वप्ने सुतारां रजनीं निदध्यो, गर्भ श्रितायां जननी यदस्यां / . आख्या पितृभ्यां द्युतिभासिताया-चक्रे सुतारेति ततः सुतायाः / / 15 / / अस्यां सत्यभामायां गर्भ श्रितायां सत्याम् , जननी माता स्वप्ने, यत् यतः, सुतारा शोभनतारकयुक्तां रजनी रात्रिं निदध्यौ ददर्श, ततस्तस्माद्धेतोः पितृभ्या, द्युत्या कान्त्या भासितायाः प्रकाशितायाः भास्वरकान्तियुक्तायाः इत्यर्थः, सुतायाः पुत्र्याः सुतारा इति आख्या नाम, चक्रे // 15 // જ્યારે તે ગર્ભને આશ્રય કર્યો ત્યારે માતાએ સ્વપ્નમાં ઉત્તમ તારાઓથી યુક્ત એવી રાત્રિને જોઈ હતી. તેથી માતા પિતાએ કાન્તિથી પ્રકાશિત એવી તે પુત્રીનું સુતારા એવું નામકરણ કર્યું. ૧પ श्रीषेणपत्न्या अभिनन्दितायाः, प्रच्युत्य जीवस्तत एव नाकात् / जज्ञे त्रिपृष्ठस्य हरेर्महिष्याः, सूनुः प्रसूनायुधरूपमूर्तिः // 16 // श्रीषेणपन्याः अभिनन्दितायाः जीवः, तत एव नाकात् स्वर्गात् सौधर्मकल्पादेवेत्यर्थः / प्रच्युत्य, त्रिपृष्ठस्य तन्नाम्नः हरेः वासुदेवस्य, महिष्याः स्वयम्प्रभाख्यपट्टराज्याः, प्रसूनायुधः कामः तद्रूपा तत्तुल्या मूर्तिः स्वरूपं यस्य स तादृशः, कामाभिरामः, सूनुः पुत्रः जज्ञे जातः // 16 // શ્રીષેણની પત્ની અભિનેન્દિતાને જીવ તે સ્વગ (સૌધર્મ ક૯૫)જ થી ચ્યવીને પ્રથમ વાસુદેવ એવા ત્રિપૃષ્ઠની પટરાણીને કામદેવ જેવા સુન્દર સ્વરૂપવાળા પુત્ર થયે. 16 . अथ तस्य नामकरणमाहगर्भस्थितेऽस्मिन्नपि साभिषेका, स्वप्नेऽम्बया श्रीः समवैक्षि यच्च / तेनैष पित्राऽप्यभिधीयते स्म, नाम्ना सुतः श्रीविजयः स्वकीयः // 17 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy