________________ एवमार्हतवृषोधमे रतौ, भीत्रिपृष्ठतनयामितीजसौ / वत्सरान् प्रकृतिवत्सलौ नृपो, तौ व्यतीयतुरिमौ सहस्रशः // 101 // एवमुक्तप्रकारेण, आर्हतः अहँनिर्दिष्टो यो वृषो धर्मः तस्य उद्यमे आचरणे इतौ तत्परौ, तो प्रसिद्धौ, प्रकृतेः प्रजानां वत्सलौ स्नेहवन्तौ, इमौ श्रीत्रिपृष्ठतनयामितौजसौ श्रीविजयामिततेजसौ नृपो विद्याधरेन्द्रौ, सहस्रशः वरसरान् बहून्य दसहस्राणि व्यतीयतुः // 11 // આમ જૈનધર્મ વિશે ઉદ્યમવત થઈને સ્વભાવથી પરસ્પર પ્રેમવાળા ત્રિપૃષ્ઠ પુત્ર શ્રીવિજયને અમિતતેજ બને રાજા હજાર વર્ષ પસાર કર્યો. 101 तौ विमानमधिरुह्य मानिनौ, जग्मतुर्नरपती परेद्यवि / नन्दने सुरपतेमनोरमे, शाश्वतान् जिनपतीन्विवन्दुितुम् // 102 // परेचवि एकदा, तौ मानिनौ मानधनौ नरपती श्रीविजयामिततेजसौ, विमानं व्योमयानमधिरुह्य, शाश्वतान् जिनपतीन् जिनेश्वरबिम्बान् विवन्दितुं, सुरपतेरिन्द्रस्य मनोरमे मनोहरे क्रीडां कत्त योग्ये इति यावत् नन्दने तदाख्योद्याने जग्मतुः // 182 // એક દિવસે શાશ્વત જિનેશ્વરોનું વન્દન કરવા સારૂ તે માનનીય અને રાજા વિમાનમાં ચઢી ઈન્દ્રના મને હર એવા નન્દન વનમાં ગયા હતા. 8/102aa तत्र काश्चनशिलातलासनौ, वीक्ष्य चारणमुनीश्वरौ नृपौ / सतमौ विपुलधीमहामती, तौ प्रणेमतुरपेतकल्मषौ // 10 // तत्र नन्दनवने, काञ्चनस्य शिलायास्तलं पृष्ठमेवासनं ययोः तौ सुवर्णपीठस्थितौ अपेतकल्मषौ निष्पापो, सत्तमौ, विपुलधीमहामती विपुलमति-महामतिनामानौ चारणगुनीश्वरौ वीक्ष्य नृपौ श्रीविजयामिततेजसौ तौ मुनी प्रणेमतुः / / 103 / / સજન એવા ત્યાં બન્ને રાજાએ કાંચન શિલારૂપી આસન ઉપર નિષ્કલંક એવા વિપુલમતિને મહામતિનામે બે ચારણ મુનિઓને જોઈ પ્રણામ કર્યો. 103 अथ तत्कृतदेशनामाहअग्रतोऽपि विनिविष्टयोस्तयो-रायसाधुरतनिष्ट देशनाम् / प्राप्य मानुषजनुः सुदुर्लभं, मा प्रमादवशगाः स्त साधवः ! // 104 // तयोः नृपयोः अप्रतोऽपि पुरत एव विनिविष्टयोपविष्टयोः तयोर्मुन्योः आधः प्रथमः ज्येष्ठ इति यावत्, साधुः मुनिः देशनामजनिष्ट ददौ। किमित्याह-साधवः हे सज्जनाः ! सुदुलभं मानुषजनुः मनुष्यजन्म 'जनुजननजन्मानि' इत्यमरः / प्राप्य, प्रमादस्य वशगाः अधीनाः मा स्त मा भूत // 104 / /