SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पा. विवववचनसूरीधररचितवृत्तिसहित सप्तमः समः / [ 163 जायते स्म वनजायतेक्षणो, बत्सरायुतमितायुरद्भतः / प्रच्युतः स च ततो भवानभू-द्रत्नसारतनयो नयोज्ज्वलः // 84 // (युग्मम् / ) एवमुक्तप्रकारेण एष मथनः, विचारेण सुन्दरः विचारसुन्दरः न विचारसुन्दरः अविचारसुन्दरः श्रेष्ठिसूः वसुदत्तपुत्रः सातिचारं पूर्वोक्तातिचारसहितं दर्शनमविशुद्धसम्यग्दर्शनं समुपास्य निषेव्य, तद् गुरोरप्यनभिधायानुक्त्वा, तस्य प्रायश्चित्तमकृत्वैव मृत्युमवाप्य, वनजे कमले इव आयते दीर्घ ईक्षणे यस्य स तारशः वत्सराणामब्दानामयुतेन दशसहस्रसंख्यया मितं समन्वितं परिच्छिन्नं वा, आयुयस्य स तादृशः, अद्भुतः विलक्षणः भुवनेषु उद्धरः उदग्रः, सुरः देवः अभूत् , ततः देवभवाच्च प्रच्युतः स मथनः, नयेन उज्ज्वलः पवित्रः नीतिमान् , रत्नसारतनयः पुत्रः, भवान् धनदोऽभूत् / / 83 / 84 / / આમ કુવિચારમાં પટુ તે શ્રેષ્ઠિપુત્ર સમ્યગ્દર્શનનું સાતિચાર પાલન કરી ગુરુની પાસે તેની આલોચના કર્યા સિવાય મૃત્યુ પામી લેકપ્રસિદ્ધ ને કમળ જેવા નેત્રવાલો ને દશ હજાર વર્ષના આયુષ વાળા અદ્દભુત દેવ થયો. તે જ ત્યાંથી ચ્યવીને તું નીતિમાન એવા રત્નસાર શ્રેષ્ઠિને પુત્ર થયો છે. 8384 ___ अथ वार्तामुपसंहरतितेन ते समभवंश्च सम्पदः, सोपदः परपदाभिलाषिणः / भावभावितमनास्ततः पुमान् , धर्ममेव विदधीत धीधनः // 8 // तेन च खण्डितभावनासमन्वितेन धर्मेण हेतुना, परपदस्य मोक्षस्याभिलाषिणः, ते तव, सापदः अन्तरा विपन्मिश्राः सम्पदः समभवन् मत्स्यगिलनादि विपत्तिजातमनुभूय तव सम्पत्प्राप्तिरित्यर्थः / ततस्तस्माद्धेतोः, धीधनः बुद्धिमान् पुमान् भावेन सद्भावनया भावितं परिप्लुतं मनो यस्य स तथा सन्नेव, धर्म विदधीत, अन्यथा तु तवेव सर्वस्यापि त्वादृशस्य गतिरिति भावः // 85 // તેથી તમને મોક્ષની અભિલાષાવાળા એવાને આપદ જેવી સંપત્તિઓ થઈ છે. માટે બુદ્ધિમાન પુરુષે ભાવનાશીળ મનવાળા થઈ ધર્મ અનુષ્ઠાન કરવો જોઈએ. 85 प्राग्भवस्मरणमाप्य तत्क्षणं, ज्येष्ठनन्दन धनावहेऽथ तम् / वेश्मभारमधिरोप्य स व्रता--दानमातत सुवर्णदानकृत् // 86 // अथ तद्वा श्रवणानन्तरं प्राग्भवस्य पूर्वजन्मनः स्मरणमाप्य, स धनदः, तत्क्षणम् , जातोत्कट. वैराग्यत्वादिति भावः, ज्येष्ठे नन्दने पुत्रे धनावहे तं वेश्मभारं गृहभारमधिरोप्य, सुवर्णदानकृत्सन् , सुवर्णदानपूर्वकमित्यर्थः / व्रतस्य पञ्चमहाव्रतस्य आदानं ग्रहणमातत चकार, न मन्तदृष्टेरुद्भेदे विषयासक्तिः झणमपि तिष्ठतोति भावः / / 8 / / તેથી જાતિસ્મરણ પામીને તે ધનદે તત્કાલ ધનાવહ નામે જયેષ્ઠ પુત્રને ઘરને બધો ભાર સપિ સુવર્ણદાન કરી વ્રતને ગ્રહણ કર્યું. 86
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy