________________ 162 ] श्रीमान्लापमहाकाव्ये બીજા દિવસે આવેલા બે સાધુઓને મથન પોતાને ઘરે લઈ જઈ પ્રાથક એવા ભાત-પાણીથી વહેરાવ્યું. તે પછી રાત્રિના છેલ્લે પહેરે એમ વિચારવા લાગે છે૭૯ तचिन्तामेवाहअव्यवस्थितफले वृषेऽत्र किं, जन्यते खलु मया परिश्रमः 1 / एवमेष परिचिन्त्य निर्मलं, धर्ममाधित पुनर्विशुद्धधीः // 80 / / अव्यवस्थितं भवेद्वा नेत्यनिश्चितं फलं यस्य तादृशे अत्र वृषेऽस्मिन् दानादिधर्मे किं कस्माद् मया परिश्रमः उद्योगः जन्यते क्रियते ? न कर्त्तव्यः फलस्यानिश्चितत्वादिति भावः / एवमुक्तप्रकारं परिचिन्त्य पुनः विशुद्धधीः निर्मलमतिः असन्दिग्धबुद्धिरिति यावद, एष मथनः निर्मलं धर्ममाधित चकार दधौ वा // 8 // કે ધર્મને ફળ કાંઈ નિશ્ચિત નથી, તો હું શું કામ ફોગટ શ્રેમ કરું છું? આમ વિચારીને તે ફરી શુદ્ધ બુદ્ધિવાળો થઈ પવિત્ર એ ધર્મ કરવા લાગ્યા. ૮ના वर्त्मनि व्रजत एकदा मुनी-नेष वीक्ष्य सजुगुप्समस्मरत् / नाहला इव मलाविला अहो !, एतके मलिनवाससो भृशम् // 1 // एकदा एष मथनः वर्त्मनि मार्गे ब्रजतः गच्छतः, मुनीन् वीक्ष्य, सजुगुप्सं निन्दया सहितम्, अस्मरत् चिन्तितवान् किमित्याह-अहो इति खेदे, जुगुप्सायां वा, एतके एते, नाहलाः पुलिन्दाः इव मलेन आविलाः अपवित्राः, भृशं मलिनवाससश्च, एवं च घृणा ( जुगुप्सा) पात्रमेते इति भावः "पुलिन्दा नाहला निष्टयाः, शबरा वरुटा भटाः" इति हैमः // 8 // એક સમયે માર્ગમાં જ તે મુનિઓને જોઈ ધૃણાપૂર્વક વિચારવા લાગ્યો કે અરે ! આ મલિન વસ્ત્રવાળા મુનિએ શ્લેષ્ઠોની જેમ કેટલા બધા મેલા છે. 8 उज्ज्वलानि सिचयानि यद्यमी, नित्यशः परिदधत्यनेनसः / किं विनश्यति ततस्तपस्विते-त्याद्ययं मुनिविगानमाचरत् // 2 // ___ यदि अनेनसः निष्पापा अमी मुनयः नित्यशः प्रतिदिनम् , उज्ज्वलानि स्वच्छानि सिचयानि वस्त्राणि परिदधति, किमिति प्रश्ने, ततः उज्ज्वलवस्त्रपरिधानात् तपस्विता मुनित्वं विनश्यति ? अर्थान्नैव विनश्यति, इत्यादि अयं मथनः, मुनेः विगानं निन्दामाचरत् // 8 // ને આ બધા મુનિઓ ઉજલા ને ડાઘ વગરના વસ્ત્રો પહેરતા હોય તે શું તેથી તપસ્વીપણે નષ્ટ થઈ જશે ? આમ ઘણી ઘણી તે મુનિઓની નિંદા કરવા લાગે. ૫૮રા एवमेष समुपास्य दर्शनं, सातिचारमविचारसुन्दरः। श्रेष्ठिसूरनभिधाय तद् गुरो-र्मृत्युमाप्य भुवनोद्धरः सुरः // 8 //