________________ 160 ] भीशान्तिनाथमहाकाव्ये તે મુનિ તે ઉત્તમ જનને આશીર્વાદ આપી ઉચિત એવા સાધુ ધર્મની સંયમની દેશના આપી. કેમકે અભ્યાગત એવા ઉત્તમ જનને મહાત્માઓ બધું સારું જ કહે છે. II71 देशनां स विनिशम्य हर्षवान्, भाषते स्म मथनो मुनीश्वरम् / धर्ममेतमुपदिष्टमर्हता, नालमस्मि विनिषेवितु मनाक् // 72 // देशनां धर्मोपदेशं विनिशम्य, हर्षवान हृष्टः, प्रियत्वात्तस्याः दुर्लभत्वाच्चेति भावः, स मथनः, मुनीश्वरं भाषते स्म, किमित्याह-अर्हता जिनेश्वरेण, उपदिष्टमेतद्भवदुक्तं धर्म विनिषेवितुमाचरितुम्, मनागीषदपि, अलं समर्थः नास्मि, अल्पसत्त्वात् , अस्य च कष्टसाध्यत्वादिति भावः / / 72 / / દેશના સાંભળી ખુશી થયેલા તે મથને મુનિને કીધું કે જિનેશ્વરે પ્રરૂપેલા આ ધર્મનું સેવન કરવાને હું સહેજપણ સમર્થ નથી. છરા अभ्यधायि गुरुणा महामते ! श्राद्धधर्म मुररीकुरुष्व तत् / शुद्धदर्शनपुरस्सरं स तं, स्वीचकार वचसा मुनीशितुः // 73 // गुरुणा मुनीश्वरेणाभ्यधायि उक्तम् , महामते ! तत्तर्हि श्राद्धस्य श्रावकस्य धर्मम् , उररीकुरुष्व स्वोकुरुष्व, तस्यापि अहंदुक्तत्वात् , सुखसाध्यत्वाच्चेति भावः / स मथनः मुनीशितुः, वचसोपदेशेन शुद्धदर्शनं निर्मलसम्यग्दर्शनं तत्पुरस्सरं तं श्राद्धधर्म स्वीचकार // 73 // ત્યારે મુનિએ કીધું કે હે બુદ્ધિમાન ! તે શ્રાવક ધર્મને સ્વીકાર કરો. ત્યારે તે મને મુનિની આજ્ઞાથી સમ્યવપૂર્વક તેને સ્વીકાર કર્યો. [73 स प्रणम्य मुनिपादपङ्कजं, मन्दिरं प्रति जगाम मित्रयुः / देवधर्मगुरुतत्वचिन्तना-ज्जीवितं सफलमेव संविदन् // 74 // स मथनः, मुनिपादपङ्कजं प्रणम्य, सिद्धान्ते तत्त्वत्रयीकथनात् देवतत्त्व-धर्मतत्त्व-गुरुतत्वस्य चिन्तनात् मननपूर्वकविचारणात् जोवितं सफलं सार्थकमेव संविदन जानन मित्रयुः मित्रसमन्वितः मन्दिरं निजगृहं प्रति जगाम / सत्सङ्गो हि क्षणिकोऽपि जोवनं सफलयतीति भावः // 74 / / પછી તે મથન મિત્ર સાથે તે મુનિના ચરણકમળને નમી ઘર તરફ ગયો. તે દેવ, ગુરુ ધર્મનું तत्व यितवतो ते पनने सण सभा साय. // 74 / / तीर्थनाथभवनं स चान्यदा, स्वापतेयनिचयैरचीकरत् / तत्र बिम्बविनिवेशनक्षणे, भग्नभाव इति व्यचिन्तयत् // 75 // अन्यदा च कालान्तरे मथनः, स्वापतेयनिचयैः धनराशिभिः कृत्वा तीर्थनाथस्य तीर्थकरस्य भवनं प्रासादमचीकरत् निर्मापयामास, तत्र प्रासादे बिम्बस्य जिनप्रतिमायाः विनिवेशनस्य क्षणे काले, भग्नभावः भावनाविरहितः सन् इति वक्ष्यमाणप्रकारं चाचिन्तयत् / / 7 / /