________________ प्रा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 159 ___ शमस्य निरीहतायाः आश्रयमास्पदं शान्तस्वरूपं तं मुनिपतिं वीक्ष्य,स मथनः, अन्तिकगं समीपस्थं मित्रमन्वयुक्त पृष्टवान् , किमित्याह-अङ्ग ! मित्र ! अयं समक्षस्थः कश्मलेन स्नानाधकरणान्मलेन आविलं कलुषितमस्वच्छं कृशं चाखिलमङ्गकमङ्गं यस्य स तादृशः विवर्णः कृशश्च, कः किंनामा, इहात्र दुमतले, कि किमर्थ कुतः अवतिष्ठते निवसति ? // 68 // શાન્ત એવા તે મુનીશ્વરને જોઈ તેણે પાસે રહેલા મિત્રને પૂછ્યું કે હે મિત્ર ! અહિં મલિન અને દુબળા શરીરવાળો આ કોણ રહેલો છે ! 68 तेन तं प्रति निवेदितं सखे ! साधुरेष विरतस्तपस्यति / एतदं हियुगलं विनम्य तत् , स्वं पुनीहि दुरितं लुनीहि च // 69 // तेन मित्रेण तं मथनं प्रति उद्दिश्य निवेदितं कथितम् किमित्याह-सखे ! एष दृश्यमानः साधुः मुनिः विरतः वैराग्यवान सन् तपस्यति तपः करोति, तत्तस्मात् , एतस्य साधोरंहियुगलं चरणद्वयं विनम्य प्रणम्य, स्वमात्मानं पुनीहि शुचिकुरु, दुरितं दुष्कर्म लुनीहि छिन्धि च / मुनिप्रणामेनात्मा पुनीते दुरितं च नश्यतीति भावः // 66 // ત્યારે તે મિત્રે તેને કીધું કે હે મિત્ર ! આ સંયમી મુનિ તપ કરે છે. આના ચરણયુગલને નમી પિતાને ધન્ય કરીને પાપને કાપો. 69 इत्युदीरितममुष्य सादरं, तन्निपीय मथनोऽनमन्मुनिम् / भूमिमण्डलरजोमिलच्छिरा, भावनां प्रकटयन्निवान्तरीम् // 7 // इत्युक्तप्रकारेण, अमुष्य मित्रस्य तदुदीरितं कथितं सादरं निपीय श्रुत्वा, मथनः, भूमिमण्डल रजसा मिलत् शिरो यस्य स तादृशः भूमिनिहितमस्तकः सन् , आन्तरी हृत्स्थां भावनां भक्त्यादिरूपचित्तवृत्ति प्रकटयन्निव, मुनिमनमत् / नमनेन कृत्वा हृत्स्था भक्तिश्रद्धादिरेव प्रकटिता भवतीति भावः // 7 // મિત્રના વચન આદરપૂર્વક સાંભળીને તે મને પોતાની અંતરની ભાવના પ્રગટ કરતો ન હોય तेपी शत पानी धूप माथामा साणे ती शते ते भुनिन नभ्यो. // 7 // साधुराशिषमुदीर्य साधवे, साधुधर्ममुचितं दिदेश सः / आगताय महते महाशयाः, सारमेव सकलं. विवृण्वते // 71 // स साधुः मुनिः साधवे सज्जनाय तस्मै मथनाय, आशिषमाशीर्वादमुदोर्य्य कथयित्वा, उचितमनुरूपं साधुधर्म यतिधर्म दिदेश उपादिशत् ननु किमिति साधुधर्म दिदेश, न पुनः गृहस्थधर्ममित्यत आह-महाशयाः उदारमनसः आगताय महते महीयसे सकलं सारं श्रेष्ठमेव मोक्षप्रापकत्वेन परमार्थभूतमेव पूर्व विवृण्वते व्याख्यान्ति // 71 / /