________________ 156 ] श्रीशान्तिनाथमहाकाव्ये रत्नसारवणिगीशनन्दना, स्पन्दनं समधिरुन सोऽथ तम् / बन्दितुं विदितयोगसंगतं, गच्छति स्म मुनिनायकं मुदा // 58 // अथानन्तरं स रत्नसारो यो बणिगीशः महेभ्यस्तस्य नन्दनः पुत्रः धनदः, स्यन्दनं रथं "स्यन्दनो रथ" इत्यमरः / समधिरुम, विदितेन शातेन प्रसिद्धेन योगेन संगतं समन्वितं योगिनं तं मुनिनायक सूरि बन्दितुं मुदा सहर्ष गच्छति स्म // 58 // રત્નસાર શેઠને પુત્ર ધનદ પણ રથ પર બેસીને તે યોગીશ્વર આચાર્ય શ્રીને વન્દન કરવાને ચા . 1585 तं विनम्य पुरतः भितासने, भक्तिभाजि धनदे मुनीश्वरः / शर्करारसमयीमिवानघ-श्रोतकां व्यषित धर्मदेशनाम् // 59 // तं मुनीश्वरं विनम्य नत्वा, पुरतः मुनेरप्रतः, श्रितमधिष्ठितमासनं येन तादृशि, भक्तिभाजि भक्ते धनदे सति, मुनीश्वरः, शर्करारसमयीं शर्करारसप्रचुरामिव मधुरां हयाम् , अत एव, बनपाः निष्पापाः श्रोतारः यतो यस्या वा अनघाः पापरहिताः श्रोतारो भवन्ति यया बा तामपहारिणीम् धर्मदेशनां व्यधित ददौ // 19 // આચાર્યને નમીને આગળમાં ભક્ત ધનદ આસન ઉપર બેઠે છતાં મુનીશ્વરે સાકર જેવી મીઠી ને શ્રોતાને પવિત્ર કરનારી એવી ધર્મદેશના આપી. પેલા अथ तदेशनामेवाहआदधीत सुकृतं सभावनं, सर्वमेव खलु नान्तरान्तरा / भावनाविकलमेव यन्न तत्, स्यात् समग्रफलदायकं नृणाम् // 60 // __सर्वमेव सुकृतं पुण्यकर्म, सभावनं भावनासहकारेणैव, आदधीत कुर्याद , अन्तरा अन्तरा मध्ये मध्ये न खलु, एकत्र भावना अपरत्र नेत्येवंरीत्या नैवेत्यर्थः। निरन्तरभावनासहकार आवश्यक इत्यर्थः / विपक्षे वाधकमाह-यद्यस्मात् भावनया विकलं रहितं तत्सुकृतं नृणां समग्रफलदायकं नैव स्यात्, तद्धि सुकृतमतः फलं तु दास्यति, किन्त्वविकलं न, निरन्तरभावनासहकारविरहात् तस्मानिरन्तरभावनासहकारः समप्रफलप्राप्तावावश्यक इति भावः // 60 // બધા ધર્મ અનુષ્ઠાને ભાવનાપૂર્વક કરવાં, વચ્ચે વચ્ચે ભાવના રહિત થવું નહિ, કેમકે તેમ થવાથી તે ધર્મ મનુષ્યને સંપૂર્ણ ફળ આપનારે થાય નહિ. 6 ના प्राग यथैव जिनराजमन्दिरं, श्रेष्ठिपुत्रमथनो विधाप्य सः / खण्डितं फलमविन्दत ध्रुवं, भावखण्डनवशेन तद्यथा // 61 // यथैव येन प्रकारेणैव, प्राक् पूर्वकाले, स श्रेष्ठिपुत्रः मथनः तदाख्यः, जिनराजमन्दिरं विधाप्य