SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 154 ] श्रीशान्तिमाथमहाकाव्ये तत्पुरोपवन एव चान्यदा, चिच्चतुष्टयधरो मुनीश्वरः / शीलधार्यभिध आययौ गुरु, शिष्यवृन्द विनिषेवितक्रमः // 52 // अन्यदा च तस्य पुरस्य उपवने एव, शिष्यवृन्देन विनिषेवितः क्रमः चरणः यस्य स तादृशः शिष्यवृन्दसमन्वितः, चिता ज्ञानानां चतुष्टयं तस्य धरः मति-श्रुता-वधि-मनःपर्ययज्ञानचतुष्कयुतः थत एव, मुनीश्वरः यतिनायकः 'शीलधारी' इति अभिधा नाम यस्य स तादृशः गुरुः आययौ // 52 // બીજા દિવસે તે નગરના ઉદ્યાનમાં જ શિષ્યવૃન્દથી સેવિત છે ચરણ જેના એવા મહાન મુનિ ચતુર્ગાની શીળધારી નામે આચાર્ય આવ્યા. પરા अय मुनिमेव विशिनष्टिप्रेयसी मम हृदः परं क्षमा, तां न वीक्षितुमयं क्षमः क्षणम् / इत्यवेक्षितजिनेश्वरागमः, कोषमेव निजघान यः स्वयम् // 53 / / यः मुनीश्वरः, अवेक्षितजिनेश्वरागमः गीतार्थः अत एव, मम मुनेः, हृदः मनसः, परमत्यन्त प्रयसी प्रियतरा क्षमा शान्तिः अपकारेऽपि प्रतिकारानिच्छा, तां क्षमाम् , अयं कोपः, क्षणमपि, वीक्षितुमवलोकितुं न क्षमः समर्थः, क्रोधसत्त्वे हि क्षमायाः झणमात्रमपि न संभव इति भावः, इति हेतोः स्वयम् , कोपमेव निजघान व्यनाशयत् , अन्योऽपि स्वप्रेयस्याः अमर्षणं हन्तीति भावः / जितक्रोधः क्षमावान्, गीतार्थश्च स मुनीश्वर इत्यर्थः // 53 // જે જિનેશ્વરનું વચન જાણકાર જે આચાર્યની ક્ષમા મારા મનથી અત્યન્ત પ્રિય છે. પણ તેને આ ક્રોધ ક્ષણવાર પણ જોઈ શકતો નથી. એમ ધારીને જાણે કોપને નાશ કર્યો હતો. પા मत्प्रियङ्करणपालितात्मना, संविदा सह सदा विरोध्ययम् / इत्यशेषभुवनानुगामिनं, मानमुद्धतमधश्चकार यः // 54 // मम स्वस्य प्रियङ्करणाय मुक्त्यादीष्टप्राप्तये पालितः संरक्षितः अनेकव्रतानुष्ठानादिक्लेश सोढ्वाऽपि उपार्जित आत्मा स्वरूपं यस्याः सा तादृशी, किञ्च मम प्रियङ्करणम् मया पालितश्चात्मा यस्याः सा, यद्वा मम प्रियकरणस्याभीष्टस्य पालितं पालनमेव आत्मा यस्याः सा तादृशी तया मुक्त्यादिसाधिकया संविदा ज्ञानेन सह, अयं मानो बिरोधी आवरकः, अहन्तानिवृत्तावेव शुद्धज्ञानस्योदयादिति भावः, इति हेतोः, यो मुनीश्वरः, अशेष भुवनं लोकमनुगच्छति व्याप्नोति इति तम्, सकललोकान्तः स्थितम् , अथ च, उद्धतम् उग्रकर्माणम्र, अहंकारस्य बन्धहेतुत्वादिति भावः, मानमभिमानमधश्चकार तिरश्चकार, ज्ञानावारकत्वाद्वन्धहेतुत्वाच मानं तत्यायेत्यर्थः, निरभिमानी स मुनिरिति भावः / यो हि ज्ञानी स मानं न पात्येवेति // 54 // 1 माघारपस्य मम प्रियं निखिलकर्म विलयनं सुखं दुःखध्वंसश्च तत्करणाय तत्कत्तु पालितः अमोघकारणत्वात् सुबहः भास्मा स्वरूपं यस्याः सा तादृशी / 2 उनकर्मबन्धकम् /
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy