________________ बा. विववदर्शनसूरीधररचितवृत्तिसहिते सप्तमः सर्गः [ 153 अत्रार्थ एव युक्त्यन्तरमाहसंभवेदतितमां महीयसा-माश्रयेण महिमाऽमहीयसाम् / आरकूटशकलं धनेशितुः, पाणिना विधृतमर्जुनायते // 49 / / अमहीयसां नीचानामपि महीयसामतिमहतामाश्रयेण सान्निध्येन, अतितमामतिमहान महिमा गौरवं संभवेद्भवति, यथा धनेशितुः इभ्यस्य कुबेरस्य पाणिना करेण धृतम् , आरकूटस्य पित्तलस्य शकलं खण्डम् , अर्जुनं स्वर्ण तदिवाचरतीति अजुनायते, महतः धनाढ्यस्य हस्ते स्थितं पित्तलमपि लोकैः स्वर्णमिति मन्यते, पित्तलस्यापकृष्टद्रव्यत्वात् , महतश्चापकृष्ट द्रव्यग्रहणस्यान्येनासम्भवात् , अप. कृष्टद्रव्यस्य दरिद्रेणैव धारणात् तथा त्वादशस्य महतः सान्निध्यान्मम लघोरपि महिमेति त्वमेवात्र मूलमिति भावः / / 4 / / નાનાઓની પણ મહિમા મોટાઓના આશ્રયથી અત્યંત વધી જાય છે. મોટા શેઠના હાથમાં રહેલ પિત્તલનો ટુકડે સોના જેવો લાગે છે. 49 ननु रत्नलाभस्तव देव्याः न तु मत्तः, तेन च तव महत्त्वम् , न तु ममाश्रयणादिति चेत्तत्राह रत्नलब्धिविषये महीपते ! त्वत्प्रसत्तिरपि मूलकारणम् / / राजनि प्रणयिनां प्रसेदुषि, प्रीतिमान् भवति देवताजनः // 50 // महीपते ! रत्नानां लब्धिः प्राप्तिः तद्विषये त्वत्प्रसत्तिः त्वत्प्रसन्नताऽप्येव मूलकारणं निदानम् , ननु रत्नलाभो देवीप्रसादात्तत्र मम प्रसत्या किं कृतमिति चेत्तत्राह-राजनि, प्रसेदुषि प्रसन्ने सति, प्रणयिनां भक्तानामुपरि देवताजनः, प्रीतिमान् प्रसन्नो भवति, अप्रसन्न तु राजनि न तथा इति देवीप्रसादः त्वत्प्रसादभावेनेति तत्रापि तवैव महत्त्वम् // 50 // હે રાજા ! રત્નોની પ્રાપ્તીને વિષે પણ તમારી પ્રસન્નતા જ મૂળ કારણ છે. રાજા પ્રસન્ન છતે ભક્ત ઉપર દેવતાઓ પ્રસન્ન થાય છે. પલા एवमेष मणिभिश्च पञ्चभिः, स्वापरोपकृतिकर्म निर्ममे / इन्द्रियैरिव महामनाः पुमा-नात्मशुद्धिपरभागकाङ्क्षया // 51 // * एवमुक्तप्रकारेण एष धनदः, पञ्चभिश्च मणिभिः, स्वस्यापरस्यान्यस्य च उपकृति कर्म उपकारं निममे चकार / महामनाः मनस्वी पुमान् पुरुषः, भात्मनः स्वस्य शुद्धिः नेमल्यं तस्य परस्यान्यस्य भागोऽभ्युदयः तस्य च काझया इच्छया इन्द्रियैः कृत्वा, परोपकारकरणमिव, मनस्विनः आत्मशुद्धयै पराभ्युदयाय च इन्द्रियाणि विषयेषु व्यापृणन्ति, न तु अन्यापकाराय, विषयवासनातो वा तथैवायमपीति भावः // 5 // આમ તમારો આ ધનદ પાંચ મણિઓથી પિતાને ને બીજાને પણ ઉપકાર કર્યો છે. જેમ મહાત્મા જીવ આત્માની શુદ્ધિને બીજના ઉપકારની ઈરછાથી પાંચ ઈન્દ્રિયોથી ( જ ૫રને ઉપકાર ) કરે છે. સં૫૧૩