________________ 152 ] श्री शान्तिनाथमहाकाव्ये मादृशामसमभाग्यवैभनाजात एष भवतो भवोदयः / चक्रराकसुकृतानुभावतो, भानुमानुदयते हि सन्ततम् // 46 // मादृशा जनानाम् , असमस्यानुपमस्य, भाग्यस्य वैभवात् समृद्धः, अन्यस्य हि भाग्यसमृद्धिनैतादृशी, यतः न भवादृशः अन्यत्र इति अनुत्तमा मद्भाग्यसम्पदित्यर्थः / भवतस्तव एष वत्तमानः भवे संसारे उदयः जन्म जातः, यदि हि भवतो जन्म न स्यात् तर्हि को नामास्मानीदृशेभ्यः संकटेभ्यः पायादिति माशां भाग्यादेव भवतो जन्मेत्यर्थः / “सहायास्तादृशास्तस्य, यादृशी भवितव्यता / ' इत्युक्तरिति भावः / ननु नह्यन्यस्य भाग्यतः अन्यस्य जन्म क्वापि श्रुतं दृष्टं वेति चेत्तत्राह-हि यथा, चक्रवाकस्य सुकृतस्य पुण्यस्य अनुभावतः प्रभावतः, भानुमान् सूर्य: सन्ततमहरहः उदयते, नहि सूर्योदयं विना १चक्रवाकविरहविरह इति तद्भाग्यादेव सूर्योदयः, इति असम्बन्धेऽपि सम्बन्धाध्यवसायादतिशयोक्तिः, तत्प्राणितश्च दृष्टान्तः // 46|| મારા જેવાના અનુપમ એવા ભાગ્યના પ્રભાવથી જ તમારે આ જન્મ થયો છે. જેમકે ચક્રવાક પક્ષીના પુણ્યના પ્રભાવથી જ હંમેશાં સુર્ય ઉદય પામે છે. 46 शंसतीत्थमवनीश्वरे स्वयं, रत्नमूर्विनतिवामनोऽब्रवीत् / एष देव ! महिमा महाँस्तव, वक्ति यद्विभुरुपक्रियां मम // 47 // अवनीश्वरे राजनि, इत्थमुक्तप्रकारेण, स्वयमात्मना एव शंसति वर्णयति सति, विनत्या विनयेन प्रणामेण वा वामनः वामन इव संकुचितः सन् प्रणामे स्वस्य नमनाद्वामनत्वम् , विनयी च स्वप्रशंसां श्रुत्वा संकोचमाप्नोतीति वामनत्वमिति भावः / रत्नसूः धनदः अब्रवीत् , किमित्याह-देव ! राजन् ! एष मम प्रकाशनं तव, महान् महिमा महत्वम् औदार्यम् , यद्विभुः प्रमुरपि मम उपक्रिया. मुपकारं वक्ति वर्णयति, उदारा हि अन्यस्योपकारं स्वस्य गौरवेऽपि वर्णयन्ति नीचस्यापि, इति मां वर्णयन् त्वं स्वमहत्वमेव प्रकटीकरोषि इति भावः // 47 // રાજાના પિતાની મેલેજ આમ પ્રશંસા કરતા છતાં વિનયથી અત્યંત નમ્ર થઈ ગયેલ રત્નસાર બોલ્યા કે હે રાજા ! આપ શ્રીમાન જે મારે ઉપકાર વર્ણો છો તે આ આપના માટે મહિમા છે. ૪ળા उत्तमाश्रयवशात्प्रशस्यतां, यात्यवश्यमपि वर्णदूषकः / पीतरक्तसितवर्णयोगत-श्चित्रके स्फुरति कृष्णवर्णकः // 48 // . उत्तमो य आश्रयः आधारस्तद्वशात्प्रभावात् , वर्णदूषकः निन्दितवर्णः अपि, अवश्यं प्रशस्यता याति, ननु क्व इत्थं दृष्टमिति चेत्तत्राह-चित्रके चित्रवर्णवति वस्तुनि, पीतस्य रक्तस्य सितस्य श्वेतस्य च वर्णस्य योगतः सम्पर्कात्, कृष्णवर्णकः कालो वर्णः सर्वाधिक्येन शोभते इति आश्रयवशादेव कालवणस्य तत्र शोभा, न तु स्वतः, स्वतस्तस्य अप्रशस्यत्वात् , तथा तवाश्रयादेव मम प्रशस्यता न तु स्वत इति मम प्रशंसापेक्षयात्वमेव प्रशंसाह इति भावः / दृष्टान्तः // 48 / / રૂપને બગાડી નાખે એવી વસ્તુ પણ ઉત્તમ આધારને લીધે અવશ્ય કરીને પ્રશંસા પામે છે. પીળા, લાલ ને ઘેળા વર્ણના વેગથી થયેલા ચિત્ર વર્ણવાળા વસ્ત્રમાં કે ચિત્રમાં કાળો વર્ણ વધારે ખિલે છે. I48 1 चक्रवाकस्य स्त्रिया सह यो विरहस्तस्य विरहः / 2 अन्यस्य नीचस्याप्युपकारं स्वस्य गौरवेऽपि वर्णयन्ति /