________________ मा. विजयदर्शनसूरीश्वररचितवृक्तिसहिते सप्तमः सर्गः अन्यदा एकदा, नरपतिः नृपः कनकरथः, शिरोव्यथा भयोडी, शूलमुदरपीड़ा, ताभ्यां विषमाभ्यामुग्राभ्यामामयाभ्यां रोगाभ्यामर्दितः पीडितः सन् , वैद्यानां मान्त्रिकाणां च गणैः वृन्दैः, अनेकोपचारेणापि रोगस्यानिवृत्तेः उपेक्षितः असाध्योऽयं रोग इत्येवं कृत्वा त्यक्तः, अत एव जीवितव्येन जीवनेन विमुखः निराशः. विनिःश्वसन दीर्घमष्णं च श्वासं दधन , मरणचिन्तयेति भावः, रत्नसारतनयेन धनदेन अर्पितस्य प्रदत्तस्य उल्लसतः शोभमानस्य रोगभेदिनः रोगनाशकशक्तिमतः मणेः वार्मिः जलैः उक्षितः सिक्तः, तत्क्षणात् सद्य एव, विशीर्णा विनष्टा वेदना पीडा यस्य स तादृशः नीरोगः सन् , अन्तिकस्थितं धनदं व्याहरत् उक्तवान् // 42-43 / / એક દિવસે તે રાજ માથાના દુઃખાવા ને પેટમાં શૂળ જેવા કઠન રોગથી પીડાય છત વૈદ્યો ને, મંત્ર જાણનારાઓએ તેની ઉપેક્ષા કરી દીધી તેથી જીવનથી નિરાશ થયેલો તે જોર-જોરથી શ્વાસ લેતે હતે. (પણ) રત્નસારના પુત્ર ધનદે આપેલા ઉત્તમ એવા રોગનાશક પાણિના જળથી સિંચાયે છતે તરત જ તે વેદના રહિત થઈ ગયો ને પાસે રહેલા ધનદત્તે કીધું કે, રા૪૩ कि व्याहरदित्याहभास्करः प्रकुरुतेऽप्युपक्रियां, तापमादधदधिप्रकाशनः / चन्द्रमास्तु कलयन कलङ्किता-मादधाति जनतापहिंस्रताम् // 44 // चन्दनं हरति तापमान्तरं, घृष्टमेव दृशदा धृतं तनौ / रत्नसारगुरुवंशकेतनं, स्वव्यतिक्रमगुणो भवानभूत् // 45 // (युग्मम् ) अध्यधिकं प्रकाशनः प्रकाशकः भास्करः सूर्यः, अपि तापम् औष्ण्यमादधत् , स्वयं तपन, उपक्रियां जीवोपकारं कुरुते स्वयं दुःखं सोढवापि परस्योपकारं करोतीत्यर्थः, तथा तु पुनः चन्द्रमा: स्वयं कलङ्किता लान्छनं कलयन् वहन , जनस्य तापस्य हिंस्रता नाशकत्वमादधाति, परतापं नाशयति किन्तु स्वयं तु कलङ्की, तथा सूर्यः परप्रकाशकः किन्तु स्वयं तपति, तथा चन्दनम् दृषदा पाषाणेन घृष्टं सत् , तनौ शरीरे धृतं लेपितम् आन्तरं हृत्स्थं तापं हरति, परतापं हरति किन्तु स्वयं घृष्यते इत्येवं सर्वेषामेव भास्करादीनां परोपकारिणां स्वस्य स्वस्य कोऽपि व्यतिक्रमो दृश्यत एव, किन्तु रत्नसारस्य गुरोर्महतः वंशस्य कुलस्य केतनमुत्कर्षत्वात्पताकेव, भवान् स्वस्व अव्यतिक्रमः क्षत्यभावः येन, तादृशः अभूत् / भवतो हि परमुपकुर्वतो न स्वस्य कापि हानिरिति भास्करादिभ्यः उपकारेभ्यो भवान् विशिष्यत इति न त्वत्समः कोऽपि उपकारी जगतीत्यर्थः / भास्करादिभ्यः उपमानेभ्यः उपमेयस्य धनदस्याधिक्यवर्णनाद्वयतिरेकालङ्कारः // 44-45 / / બહુ પ્રકાશવાળો સૂર્ય તાપને કરતો તપાવતે તપાવતો ઉપકાર કરે છે. ને ચંદ્ર તે પોતે કલંક ધારણું કરતે છતે લોકેાના તાપનો નાશ કરે છે. ને ચંદન પત્થર ઉપર ઘસાયેલે ને શરીરમાં લેપાયેલે અંદરના તાપને પણ નાશ કરે છે. પણ રત્નસારના મહાન કલના પતાકા સમાન તમે પોતે જ એલંગી શકે એવા ગુણુવાળા અસામાન્ય ગુણવાળા થયા. ૪૪૪પા १.सु सुष्टु अव्यतिक्रमः क्षत्यभावो गुणो यस्य स तारशोऽभूत् /