________________ 150 ] भोशान्तिनापमहाकाये भाषिताऽपि वचन न सा ददौ, मूकतामुपगतेव साग्रहा / जल्पति स्म यदि वा कथञ्चन, म्लिष्टमाहतमबद्धमुद्धतम् // 39 // सा सापहा आग्रहेणसहिता भाषिता अपि, मूकताम् उपगता मूका इव, वचनं न ददौ न प्रतिवक्ति स्म, तथा यदि वा, कथंचनात्यनुनयादिना जल्पति स्म, तदा म्लिष्टमविस्पष्टम्, आहतमपार्थकम् , अबद्धमनर्थकम् , उद्धतं तारस्वरमुत्कटं वा, जल्पति स्मेत्यर्थः / एतेन वचनविरतिरुन्मादश्वोक्तः // 39 // તે બેલાયેલી છતાં પણ હઠથી મુંગી થઈ ગયેલીની જેમ કંઇ પણ બેલતી ન હતી. જે કઈ પણ રીતે કંઈ બેલતી હતી, તે તે અસ્પષ્ટ છેટું સંબંધ વગરનું ને અવિનય સૂચવનારું હતું. જે૩લા ईदृशीं समवलोक्य तां सखी, बुद्धिकौशलभृताऽनृयुज्य च / तत्स्वरूपमवगम्य तत्पितुः, सर्वमेव कथयाम्बभूव तत् // 40 // तामीहशी कामावस्थापन्नां समवलोक्य बुद्धथा कौशलेन चातुर्येण च भृता सम्पन्ना परहदाशयप्रकाशनकलाज्ञा, सखी, अनुयुज्य पृष्ट्वा तस्याः राजपुत्र्याः स्वरूपमाशयमवगम्य ज्ञात्वा, तपितुः सूरभूपस्य, तत्सर्व वृत्तान्तं कथयाम्बभूव कथयामास // 40 // બુદ્ધિમતી એવી તેની સખીએ તેની આવી દશા જોઈને તેની વાત જાણીને પૂછીને તે બધું તેના પિતાને કીધું ૪ના सूरभूपरिवृढो निशम्य, ततिकाभिहितमात्तसंमदः / . विज्ञपय्य नृपति महोत्सवात् , कन्यकां नृपभुवा व्यवाहयत् // 41 // सूरः तदाख्यभूपरिवृढः महीपतिः दूतिकया दूत्या, अभिहितं कथितं तत्कन्यकोक्तं निशम्य आत्तः प्राप्तः संमदः हर्षः येन स तादृशः हृष्टः सन् स्वेष्टस्यैव पुत्र्या प्रस्तावादितिभावः / नृपति कनकरथं विज्ञप्य निवेदयित्वा, महोत्सवात्महोत्सवपूर्वकम् कन्यकां नृपमुवा राजपुत्रेण व्यवाहयत् परिणायितवान् // 41 // દૂતીએ કહેલી તે વાત સાંભળીને ખુશ થયેલા સૂર રાજાએ રાજાને જણાવી મહોત્સવ પૂર્વક રાજપુત્ર સાથે પોતાની પુત્રીને પરણાવ્યો. 41 अन्यदा नरपतिः शिरोव्यथा-कुक्षिशूलविषमामयादितः / वैद्यमान्त्रिकगणैरुपेक्षितो, जीवितव्यविमुखो विनिश्वसन् // 42 // रत्नसारतनयार्पितोल्लस-द्रोगमेदिमणिवामिरुक्षितः / तत्क्षणादपि विशीर्णवेदनो, व्याहरद्धनदमन्तिकस्थितम् // 43 // . ...... ... . . (युग्मम् )