________________ 148 ] श्रीशान्तिनाथमहाकाव्ये धीसखोऽपि तदुपेत्य भूपति, सर्वमेव रहसि व्यजिज्ञयत् / राजपुत्रविरहानलेन्धनं, कामसायकनिघर्षसाधनम् // 32 // धीसखः मन्त्री अपि भूपतिमुपेत्य भूपतिसमीपमागम्य रहसि एकान्ते राजपुत्रस्य स्त्रीविरहरूपस्य अनलस्य दाहजनकत्वादग्निरूपस्य इन्धनं वर्धकत्वादिन्धनरूपम , सा न प्राप्या इति वार्ता हि नितरां तत्कामज्वरोद्दीपिकेति भावः, अत एव, कामसायकस्य निघर्षस्य शाणस्य साधनमुपकरणम् , तादृशवा श्रवणेन नितरां कामपीडाया वृद्धिरिति तत्साधनमिति भावः / तत्तत्रत्यं सर्वमेव व्यजिज्ञपत्कथयामास // 32 // ત્યારે તે મન્ની પણ આવીને એકાંતમાં રાજાને બધું કહ્યું. રાજપુત્રના વિરહરૂપી અગ્નિના લાકડા જેવું ને કામદેવના બાણ ને તેજ કરવામાં સાધન જેવું બધું કદ જણાવ્યું. 32aa अर्पितं सुभगतानिबन्धनं, रत्नमाशु धनदेन तत्ततः / वासराणि कतिचिन्निराकुलो, ध्यायति स्म नृपतेः कुमारकः // 33 // तत्तदनन्तरम् उपायान्तराभावात्, धनदेन सुभगतायाः सौभाग्यस्य, येन गुणेन स्त्रियो वश्या भवन्ति तस्य निबन्धनं कारकम् , रत्नमाशु शीघ्रम् अर्पितं राजपुत्राय प्रदत्तम् / ततः नृपतेः कुमारकः निराकुलोऽव्यप्रः शान्तचित्त इति यावत् , कतिचिद्वासराणि दिनानि यावत् ध्यायति स्म // 33 // ત્યાર પછી ધનદે સૌભાગ્ય આપનાર રત્ન જલ્દીથી આપી દીધું ત્યારે રાજાના પુત્ર કેટલા દિવસ શાંતિથી રહેવા લાગ્યો. 33 तन्मणेनिरुपमप्रभावतो, दुर्भगत्वगरलं हृदि स्थितम् / दुष्टकर्मभुजगोपपादितं, तस्य नश्यति तरां स्म सत्वरम् // 34 // तस्य मणेः सुभगताकृन्मणेः, निरुपमादसाधारणात्प्रभावतः सामर्थ्यतः, तस्य राजपुत्रस्य, हृदि स्थितम् , दुष्टकर्म एव भुजगः अपकारजनकत्वात् , तदुपपादितन विहितम् , दुभंगत्वमेव पीडाप्रदत्वाद् गरलं विषं सत्वरं नश्यति तरां स्म // 34 // અને તે મણિના અનુપમ પ્રભાવથી દુષ્કર્મ રૂપ સર્વે નિપજાવેલા તેના મનમાં રહેલા દૌર્ભાગ્યરૂપી વિષ પણ જલદી નષ્ટ થઈ ગયો હતો. 34 यस्य नाम सहते स्म नापि या, वैरिनामवदुपेतमत्सरा / तस्य सा तदपि सूरकन्यका, मन्त्रवज्जपति मन्मथातुरा // 35 // उपेतः प्राप्तः मत्सरः विद्वेष: अप्रीतिः यया सा, या वैरिणः नामवत् , यथा वैरिणः नामापि प्रोतुं जना नेच्छन्ति, तथा, यस्य राजपुत्रस्य नामापि न सहते स्म नाम श्रुत्वा क्रध्यति स्मेत्यर्थः / सा सूरकन्यका, मन्मयेन कामेन आतुरा पीडिता सती तस्य राजपुत्रस्य, तामापि मन्त्रवज्जपति / / 5 / /