________________ मा. विजयदर्शनसूरीधररचितवृत्तिसहित सप्तमः सर्गः / ___ तथैव तव पुत्र्याः महती शोभा सम्पयेतेत्याहश्यामलेन जलदेन चञ्चला, भाति नो विकचचम्पकप्रभा / पुत्रिका तव नरेन्द्रसूनुना, योगमाप्य च यथा विभास्यति // 29 // श्यामलेन श्यामेन जलदेन मेघेन, विकचस्य विकस्वरस्य चम्पकस्य तदाख्यपुष्पस्य प्रभा इव प्रभा कान्तिर्यस्याः सा तादृशी पीतकान्तिः चश्चला विद्युत् “तडित्सौदामिनी विद्युच्चश्चला चपला अपि, इत्यमरः / तथेति शेषः / नो नैव भाति शोभते, यथा च येन प्रकारेण हि, नरेन्द्रसूनुना योगं सम्बन्धं विवाहरूपमाप्य, तव पुत्रिका विभास्यति / कृष्णपीतयोः सम्बन्धे हि महती शोभा सम्पद्यते इति तद्विदः, अत एव मेघेन विद्युतः महती शोभा, किन्तु नरेन्द्रपुत्रेण योगे तव पुत्र्या ततोऽप्यतिशायिनी शोभा भविष्यतीति महान् लाभः, अत एव तादृशसम्बन्धस्यौचित्यमावश्यकत्वं चेति भावः // 26 // વિકસિત ચંપાના ફલની જેવી કાન્તિવાળી વિજળી કાળા બાદળ સાથે જેવી શોભતી નથી. તે રાજાના પુત્ર સાથે સંબંધ પામીને તમારી પુત્રી તેવી શોભા પામશે. 29 अन्वमन्यत स सूरभूपति-मन्त्रिवाक्यमवधानतः श्रुतम् / स्वं प्रदत्तमवबुध्य पुत्रिका, भूमिपालतनयाऽथ साभ्यधात् // 30 // स सूरभूपतिः, अवधानतः सादरं साग्रहं च श्रुतं मन्त्रिवाक्यं कन्यका भूपसूनवे वितरेत्येबंरूपम् , अन्वमन्यत स्वीकृतवान् , अथानन्तरम् , स्वं प्रदत्तमवबुध्य ज्ञात्वा, भूमिपालतनया सूरभूपपुत्री सा पुत्रिका कुत्सिता पुत्री, पितुराज्ञायाः खण्डने प्रवृत्तत्वात् स्वोचितलज्जायास्तिरस्करणात् स्वहितानवलोकनादेश्च तस्याः कुत्सितत्वम् , अत एव च विशेषलाभात्तनयापदोक्तावपि पुत्रिकापदोक्तौ न पुनरुक्तपदतादोषावसर इत्यवधेयम् // 30 // સાવધાનપણાએ સાંભળેલા તે મંત્રીના વાક્યને રાજાએ માન્ય કર્યું. પછી રાજાની તે કન્યાએ પિતાને અપાયેલી જાણીને બોલી. ૩ના __किमभ्यधादिति जिज्ञासानिवृत्तये आहक्षोणिवासवसुताय मां पिता, चेत्प्रदास्यति तदा तदग्रतः / म्वं कृशानुविषपाशलम्भनालभ्यामि निधनत्वमात्मना // 31 // पिता मां क्षोणिवासबसुताय कनकरथपुत्राय प्रदास्यति चेत्तदा, तस्य राज्ञो राजपुत्रस्य वा अग्रतः पुरः आत्मना स्वयमेव, एवं निजम् , कृशानावग्नौ, विषस्य पाशस्य च लम्भनात्प्रापणात् भक्षमात् बन्धनाच, निधनत्वं मृत्यु लम्भयामि प्रापयिष्यामि, विषभक्षणादिना मरिष्यामित्यर्थः / / 31 // જે પિતા અને રાજાના પુત્રને દાન કરશે તે હું તેની આગળ. જાતેજ વિષ ખાઈને છે ગલે કાંસે લગાવીને મરી જઈશ. 31