________________ 146 ] श्रीशान्तिनाथमहाकाव्ये મંત્રીને આવતા જોઈને જ સૂરરાજા જદીથી આસનથી ઉભો થયો. તે આદરપૂર્વક આસન ઉપર બેસાડીને બોલ્યો. રપા अथ तदुक्तिमेवाहभूपतिप्रतिकृतिस्त्वमेव, यन्मन्दिरं मम समागमः स्वयम् / पूर्वजाचरितपुण्यसञ्चय-स्तद् ध्रुवं जयति मे महत्तमः // 26 / / भूपतेः कनकरथस्य प्रतिकृतिः प्रतिनिधिः, अपरः भूपतिरिति यावद, त्वं मम मन्दिरं स्वयमेव यद्यस्मात्समागमः आगतवानसि, त्वादृशस्य महतः मादृशस्य लघोमन्दिरे समागमः अपूर्व इत्येवकारेण ध्वन्यते, तत्तस्माव , मे मम, महत्तमोऽतिमहान् , पूर्वजैः पित्रादिभिः, आचरितानामुपार्जिताना पुण्यानां संचयः राशिः, जयति अतिशेते, ध्रुवं न संशयोऽत्रेत्यर्थः / तवागमनं पूर्वजपुण्यप्रभावात् , स्वस्य तु न तथा पुण्यमिति स्वनम्रता सूचिता // 26 // આપ રાજાના બીજે રૂપ જ છો. આમ પોતે મારા ઘરે આવ્યા. તેથી નક્કી મારા પૂર્વજોએ કરેલા પુણ્યના મોટા ઢગલા સારામાં સારા છે. સારા अथ स्वं सर्वात्मना विनयात्प्रतिपादयतिएतके वयमियं वधूस्तव, कन्यकेयमुभयोश्च जीवितम् / देहमेतदपि गेहमृद्धिमद्, ब्रूत येन करणीयमस्ति वः // 27 // एतके एते वयम् , इयं वधूः मद्भार्या, उभयोः मम वध्वाश्च, जीवितं प्राणतुल्यमियं कन्यका आवयोरैक्यात्तव अपीयं कन्यका इत्यर्थः, एतदेहम् , ऋद्धिमद् धनसम्पन्नं गेहमपि, सर्वमेव समुपस्थितं तवायत्तं चेत्यर्थः, एवं च वः यष्माकम, येन प्रदर्शितेन प्रतिपादितेन वा वस्तना, करणीयं प्र मस्ति, ब्रूत तदाख्याहि, सर्वमेव तवैव, यथेष्टमुपयुधि इत्यर्थः // 27 // આ અમે ને મારી વહૂને અમારા બન્નેના પ્રાણ સમાન મારી કન્યા. આ દેહ આ ધન-ધાન્યથી ભરેલું ઘર બધું તમારે છે. આપને એવું પ્રયોજન હોય તે કહો. રા धीसखोऽभ्यधित काश्यपीपते ! वस्तुतो यदिदमुच्यते त्वया / तत्सुतां वितर भूपसूनवे, युज्यते गुणवतोर्हि सङ्गमः // 28 // धीसखः मन्त्री अभ्यधितोवाच, किमित्याह-काश्यपीपते ! राजन् ! त्वया यद्यदि इदमुक्तप्रकारम् , वस्तुतः सत्यमुच्यते, तत्तर्हि, सुतां निजकन्यका भूपस्य कनकरथस्य सूनवे पुत्राय वितर प्रदेहि, न चैतदयुक्तमित्याह-हि यतः, गुणवतोः सङ्गमः सङ्गः विवाहिरूपः, युज्यते युक्तो भवति, तव पुत्री भूपपुत्रश्च द्वावपि गुणवन्तौ इति तयोः सङ्गः औचित्यादेव मया प्राध्यते इति भावः // 28 // ત્યારે તે મંત્રી બોલ્યો કે હે રાજા જે તમે બરાબર આમ કહેતા હે તે રાજાના પુત્ર માટે આ કન્યા આપો. કેમકે બે ગુણ ગુણીનો મેળાપ હોય. 28