________________ -आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 145 तत्तस्मात् चिकित्सकस्य चिकित्सितं वृथा निष्फलं संप्रपद्यावधार्य, सुहृदा मित्रेण स राजपुत्रः भाषितः, किमित्याह-यदि त्वया तथ्यं सत्यमेव, न तु लज्जादिना कथमप्यसत्यं कथ्यते, तत्तदा, रुजायाः व्याधेः उपशमनाय शान्त्यै यत्यते उपायान्तरं क्रियतेऽस्माभिः / स्वबुद्धया तु निष्फलमेव सर्व जातम् ( निष्फला एव सर्व उपाया जाताः) अतस्तवाशयज्ञानमावश्यकमिति भावः // 22 // પછી સારા સારા વૈદ્યોની ચિકિત્સા પણ ફેગટ થાય છે એમ માની તેના મિત્રોએ કીધું ને તમે સત્ય જ હકીકત જણ તે તે રોગ મટાડવા યત્ન કરી શકાય. પારરા तेन तस्य परिपृच्छतः पुरः, स्वस्वरूपमखिलं प्रकाशितम् / नैकमानस विभिन्नवर्मणो, गोप्यमस्ति सुहृदो हि किश्चन // 23 // परिपृच्छतः तस्य मित्रस्य पुरोऽग्रे तेन राजपुत्रेण, अखिलं स्वस्वरूपं निजवृत्तान्तः, प्रकाशितं प्रकटितम् , मित्राद्धि किमपि न गोप्यमित्याह-हि यतः, सुहृदः मित्रात् , एक मानसं विभिन्नं पृथक् वम शरीरं यस्य स ततः तादृशात् , किञ्चन गोप्यं न अस्ति, शरीरभेदेऽपि मनसः ऐक्यात् कथं नाम गौप्यमस्तु, नहि स्वमनोभावः स्वमनसा गुप्त इति भवितुमह ति, मित्रयोरप्यत एवैकमानसतया न गोपनसंभव इति भावः // 23 // - વારંવાર પૂછતાં એવા તે મિત્રોની આગળ તે રાજપુત્રે બધા પોતાનો વૃતાંત પ્રગટ કરી દીધે કેમકે શરીરથી ભિન્ન પણ મનથી એક એવા મિત્રથી કંઈ છૂપાવવા જેવું હોતું નથી. સરકા तस्य सख्युरवगम्य तत्तथा, भूपतिः सपदि मूलमन्त्रिणम् / मूरभूमिपतिसन्निधौ सुतां, प्राहिणोत् मृगयितुं मृगेक्षणाम् // 24 // भूपतिः, तस्य स्वपुत्रस्य सख्युः मित्रात् , तत्सर्व वृत्तान्तं तथा अविकलमेवावगम्य सपदि तत्कालमेव, मूलं प्रधान मन्त्रिणम् , सूरभूमिपतिसन्निधौ मृगेक्षणां सुन्दरी सुतां सूरभूपकन्यां मृगयितुं याचितुं प्राहिणोत् // 24 // રાજાએ તેના મિત્ર પાસેથી તે સમાચાર જાણી તરત જ મુખ્ય મંત્રીને સૂરરાજા પાસે તેની હરણ જેવી આંખોવાળી એવી કન્યાની શોધ માટે મોકલ્યો. 24 अथ तदुक्तिमेवाहआपतन्तमवलोक्य मन्त्रिणं, रंहसा समुदतिष्ठदासनात् / आसने समुपवेश्य गौरवा-दित्युवाच च स सूरभूपतिः // 25 // रंहसा वेगेन आपतन्तं समागच्छन्तं मन्त्रिणमवलोक्य, स सूरभूपतिः, आसनात्समुदतिष्ठत् , स्वागताय तथा शिष्टाचारादितिभावः / तथा, गौरवात् आदरपूर्वकम् आसने समुपवेश्य, इति वक्ष्यमाणप्रकारमुवाच च // 25 //