SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 144 ] मीशान्तिनाथमहाकाव्ये श्रीखण्डैरपि, तापस्य कामज्वरस्य वेतनाविकलमेव मन्दिरं, तं सुहृत्समुदयः समानयत् / चन्दनैर्न हृदये निवेशितै-स्तापशान्तिरभवत्तदङ्गके // 19 // सुहृत्समुदयः मित्रवृन्दं तं राजपुत्रम् , चेतनाविकलं मूञ्छितमेव, मन्दिरं गृहं समानयत् , तस्य राजपुत्रस्याङ्गकेऽङ्गे, हृदये उरसि निवेशितैः लिप्तैः चन्दनैः अतिशीतलत्वेन तापशमकत्वेन प्रसिद्धैः प, तापस्य कामज्वरस्य शान्तिः न अभवत् , कामज्वरस्य अत्यधिकत्वादितिभावः // 19 // બધા તે મિત્ર બેહેશ રાજપુત્રને ઘરે લઈ ગયા પણ હદય ઉપર ચંદન મુકાયા છતાં તેના અંગોમાં તાવ ઓછો થયો નહિ. ૧લા अथ तत्कामज्वरस्य प्रकारान्तरेणाप्यसाध्यत्वमाहमान्मथं ज्वरमपोहितुं क्षमा, भेषजैन भिषजो रसैरपि / लङ्घनैरपि धनैर्न साधनैः, सुश्रुतोक्तविधिना विधापितः // 20 // भिषजः चिकित्सकाः सुश्रुतेन तदाख्यचिकित्सकमूर्धन्येन उक्तेन सुश्रुतसंहितायां प्रदशितेन विधिना पद्धत्या, घनैः बहुभिः माधनैरुपकरणः कृत्वा, विधापितैः निर्मापितैः, भेषजैः काष्ठौषधिजन्यौषधैः, रसैः पारदादिभस्मनिर्मितैः रसाख्यौषधविशेषैरपि न, लङ्घनैरुपवासैरपि न, मान्मथं कामजन्यं ज्वरं तापमपोहितुं दूरीकर्तुं क्षमाः समर्था अभूवन् / असाध्यं तत्कामज्वरमिति // 20 // વૈદ્યો કામ જવરને કાષ્ઠૌષધિથી કે રસભમોથી કે લંધનથી કે શુશ્રુતે કહેવા પ્રમાણે કરાયેલા બીજા પણ પ્રકારે પણ મટાડી શકતા નથી. જેના तस्य दाहतिरेकमाह-- तस्य शस्यशयनीयपल्लवा, ममरत्वमगमन् प्रतिक्षणम् / अङ्गदाहशमनाय कल्पिता, दाहमेव विपुलं वितेनिरे // 21 // तस्य राजपुत्रस्य, अङ्गस्य दाहो ज्वरस्तापः तस्य शमनाय शान्त्य, प्रतिक्षणम् क्षणे क्षणे, कल्पिता विहिताः, दाहज्वरोष्मणा एकस्य शुष्कत्वे सद्य एव पुनरन्यदेवं क्रमेणेतिभावः / शस्या अतिमृदवः शयनीयस्य शय्यायाः "तल्पं शय्या शयनीयम" इति हैमः / पल्लवाः किसलयानि "किसलयं किसलं पल्लवोऽत्र तु" इति हैमः / ममरत्वं ममरशब्दकत्त त्वम, शुष्कत्वादिति भावः। “अथ ममरः स्वनिते वस्त्रपर्णानाम्" इत्यमरः / अगमन् आयुः, अत एव, विपुलमधिकमेव दाहं वितेनिरे चक्रः / अत्र दाहनाशार्थ कृतेन पल्लवशयनीयेन वैपरीत्येन दाहाधिक्यस्यैव वर्णनाद्विषमालङ्कारः // 21 // તેની શયાના લીલા કુમલા પાંદડાઓ ક્ષણે ક્ષણે મર્મર અવાજ કરવા લાગ્યા. અંગના દાહની શાંતિ માટે કરાયેલી તે શયા ઉલટું ઘણું જ દાહ આપતી હતી. 21 तच्चिकित्सकचिकित्सितं स्था, संप्रपद्य सुहृदा स भाषितः / तथ्यमेव यदि कथ्यते त्वया, तदुनोपशमनाय यत्यते // 22 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy