________________ ला. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 143 यौवनोपचयसुन्दरोऽन्यदा, कुञ्जरं समधिरुह्य यन् पथि / / भूपसुः स च गवाक्षमाश्रितां, सूरभूपतनयामवैक्षत // 16 // अन्यदा चिरकालानन्तरम् , यौवनेन यः उपचयः अङ्गलावण्यादिवृद्धिः, तेन कृत्वा सुन्दरः दर्शनीयः स भूपसूः राजपुत्रः कुब्जरं गजमारुह्य पथि यन् गच्छन् , गवाक्षमाश्रितां गवाक्षं वातायनमाश्रित्य स्थितां सूरभूपस्य सूरनामनृपतेः तनयां पुत्रीमवैक्षत // 16 // ___ तां राजपुत्रीमेव विशिनष्टिश्रीपदोपचितषेणिकाभिधां, क्षीरनीरधिसुतानुजामिव / दृश्यपाणिकमलामनाविलां, रूपलक्षणगुणोपशोभिताम् // 17 // (युग्मम्) क्षीरनीरधिसुतः चन्द्रः, क्षीरसागरात् चन्द्र जन्मेति पुराणादिति भावः, तस्य अनुजाम् , कनिष्ठस्वसारं लक्ष्मीमिव रूपेण लक्षणैः सामुद्रिकोक्तैः, गुणैश्च उपशोभिताम् , अत एव अनाविलाम् निर्मलाम् , तथा दृश्यं पाणिः कमलमिव यस्यास्ताम् , न तु अङ्गान्तरम् , शीलसम्पन्नत्वेन स्वगृहे वा एकान्तेनापि बावृतशरीरत्वादिति सत्कुलजत्वमुक्तम् , श्रीपदोचितषेणिकाभिधां श्रोणिकानाम्नी, सूरभूपतनयामवैक्षतेति पूर्वेण सम्बन्धः // 17 // એક દિવસે યુવાવસ્થાની ચઢતીથી વધારે દેખાવડો તે રાજાને પુત્ર હાથી ઉપર ચઢી જતે જતે માણમાં ગોખ પર રહેલી સર રાજાની લક્ષ્મીની નાની બહેન જેવી-જેનો હાથ બહારથી દેખાય છે તેવી ઉઘાડા હાથવાળી નિર્મળને સૌન્દર્ય લક્ષણને ગુણેથી શોભતી એવી શ્રીષેણ નામની કન્યાને જોઈ. 1617 अथ तद्दर्शनात्तदवस्थामाहपुष्पसायकनिशातसायकै-राहतः सममजन्यचेतनः / का तदङ्गसुकुमारता परा, तस्य कोऽत्र ननु विक्रमक्रमः // 18 // समं दर्शनैककालमेव, पुष्पसायकस्य कामस्य निशातैः तीक्ष्णैः लक्ष्यवेधनिपुणैः “शरे खड्ने च सायकः” इत्यमरोक्तेः सायकैः पञ्चभिः बाणैः पौष्पैः, आहतः विद्धः, स अचेतनः निश्चेष्टः अजनि, कामज्वरपीडितोऽभूदित्यर्थः / नन्वित्याश्चर्य वितर्के वा, तदङ्गस्य पुष्पघटितबाणाङ्गस्य पुष्पस्य सुकुमारता मृदुता परा अत्युस्कृष्टा का क्व, अपूर्वेत्यर्थः / यद्वा तदङ्गस्य सूरकन्यकाङ्गस्येत्यर्थः। तस्य तादृशसुकुमाराङ्गस्य बाणस्य सूरभूपतनयाङ्गस्य वा, अत्र राजपुत्रे, विक्रमक्रमः प्रभावपरम्परा कः क्व, मृदुवस्तुन भाघातेन कस्याप्यचैतन्यमाश्चर्यम् // 18 // તે રાજાને પુત્ર કામદેવ વડે તીક્ષણ બાણોથી હણવાની સાથે હોશ ગુમાવી બેઠે–કેવી તે રાજપુત્રીના અંગેની સુન્દર સુકમારતાન કે તેને આ રાજપુત્રને વિષે પરાક્રમની પરંપરા ? 18